________________
238
न्यायमञ्जरी . [सूत्रानुगुणत्वं साधुत्वमित्यपि न युक्तम् ]
तत्रतत्स्यात-न जात्यादिरूपमिह लक्षणमभिधित्सितम्। अपि तु कथमनुशासनमिति प्रश्नपूर्वकमुक्तं प्रकृत्यादिविभागकल्पनया, सामान्यविशेषतता लक्षणेनेति च। तथा हि-'कर्मण्यण' इति सामान्यलक्षणं-कर्मण्युपपदे धातुमात्रादग्प्रत्ययो भवतीति । "आतोऽनुपसर्ग कः' इति विशेषलक्षणम् आकारान्ताद्धातोः उपसर्गरहितात् कर्मण्युपपदे कप्रत्ययो भवतीति । तेनानेन सामान्यविशेषवता लक्षणेन कुम्भकारः नगरकारः इत्यादयः, गोदः कम्बलद इत्यादयो भूयांसः शब्दाः अक्लेशेनैव व्याकरिष्यन्त इत्युच्यते प्रकृत्यादिविभागकल्पनयत्यत्र यद्वक्तव्यं, तत्प्रागेव सविस्तरमभिहितम्। सामान्यविशेषवता लक्षगतेति तु. संप्रतिनिरूप्यते । तदपि व्यवस्थितं लक्षणं न दृश्यते-तथा हि-धातोः परे प्रत्यया भवन्तीति लक्षणं कुर्वता वक्तव्यम्-कः पुनरयं धातुर्नामेति ॥
[धातुस्वरूपमपि दुर्वचम् ] .. ननु 'भूवादयो धातवः' इत्युक्तमेव तत्स्वरूपं–केचन शब्दाः कयाचित्परिपाट्या हिताः, ते धातुसंज्ञया लक्ष्यन्ते । तेभ्यः परे तिङः कृतश्च प्रत्यया भवन्तीति-सत्यमुक्तमेतत्-किन्तु एवं पाठे कृतेऽपि न धातुस्वरुपनिर्णय उपणितो भवति । तथा च गण्डतीत्यपि प्रप्नोति,* धातोस्तिङप्रत्ययविधानात् । 'घट चेष्टायां' इति धातुः अस्ति च घट इति प्रातिपदिकम् । 'अमो रोगे' इति धातुः अनुबन्धत्यागात्। 'अम्' इति भवति; अस्ति च द्वितीयाविभक्तरेकवचनमिति । भू शब्दो धातुः; अस्ति च भूप्रातिपदिकम्। 'यती प्रयत्ने' इति लुप्तानुबन्धः 'यत'
* न चेष्टापत्तिः, नामपदानामपि धातुत्वप्रसङ्गात् ॥ * अनुबन्धः -इत् ॥
__1 ते-ख,
पुरः-ख.