________________
237
. षष्ठमाह्निकम्
[मन्वादिस्मृतिभ्वसंस्कृतशब्दप्रयोगः ] मन्वादिग्रन्थेष्यपि कियन्तोऽपशब्दा गण्यन्ते? 'ज्ञातार स्सन्तिमे' इति मनुना, 'अक्षिणी आज्य' इत्याश्वलायनेन, 'मूर्धन्याभिजिघ्रणं' इति गृह्यकारेण, तदनन्तरं 'तुभ्यं च राघवस्य' इति वाल्मीकिना, 'जन्मे जन्मे यदभ्यस्तम्' इति द्वैपायनेन प्रयुच्तम् । __आह च (त-वा-1-3-18)
'अन्तो नास्त्यपशब्दानामितिहासपुराणयोः, *इति । अथवा किमनेन पुराणपुरुषपरिवादेन । सर्वथाऽयं वस्तुसंक्षेपः*क्षामोऽपि कश्चिदुपयोगो न लोके वेदे वा व्याकरणस्य विद्यत इति॥
. [व्याकरणस्य विफलस्वं वैयकरणै रप्युक्तम् ]
किंचान्यत्- 'अथ शब्दानुशासनम्' इत्युपक्रम्य 'केषां शब्दनाम्' इति पृष्ट्वा, 'लौकिकानां वेदिकानां च' इति प्रतिज्ञायन लौकिकास्सर्वे व्याकर्तुं पारिताः शब्दाः। नापि वैदिकाः । तथाहि-तेषां व्याक्रिया प्रतिपदं वा विधीयते ? लक्षणतो वा? प्रतिपदं तावदनुशासनमघटमानं आनन्त्या च्छब्दानाम् । तथा चाहुः-'बृहस्पतिरि द्राय दिव्यं वर्षसहस्र' प्रतिपदं विहितान् शब्दान् प्रोवाच, न चान्तं जगाम' इति ॥
नापि लक्षणतः, तदसंभवात् । न हि सकलसाधुशब्दवर्गानुगतं अपशब्देभ्यश्च व्यावृत्तं गोत्वादिवदिह किंचिल्लक्षणमस्तीत्युक्तम् ॥
___ * इदं सर्व छान्दसमिति यद्यपि परिहरन्ति । परन्तु अपशब्दत्वं समान मेवेति भावः ॥
' स्या-ख,
३ तत्संभो-स्खा