________________
236
... न्यायमञ्जरी 'तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृते' (त-वा-1-3-18)
इति
॥
[ सूत्रेऽप्यसंस्कृत शब्दप्रयोगः ] __ अपि च व्याकरणेन कृतेऽपि शब्दसंस्कारे तदुपदिष्ट संस्कारबहिष्कृतशब्दप्रयोगान् विदधतः तत्रतत्र पूर्वेऽपि दृश्यन्ते। सूत्रकारस्तावत् 'जनिकर्तुः प्रकृतिः'तत्प्रयोजको हेतुश्च' इति 'तुजकाभ्यां कर्तरि' इति प्रतिषिद्धं ... षष्ठीसमासं, 'तथा ‘जनिकर्तुः' इति धातुनिर्देशकविषयं जनिशब्दं अर्थनिर्देशेऽपि प्रयुक्तवान् ॥
- [वार्तिकेऽसंस्कृतशब्दप्रयोगः] वातिककारोऽपि 'दम्भेर्हल्गृहणस्य जातिवाचकत्वात् सिद्धम्' इति तथैव प्रयुक्तवान्। 'अन्यभाव्यं तु कालशब्दव्यवायात्' इति च "क्लेशेन' समाससंज्ञया गुणवचनसंज्ञाबाधितत्वात् अगुणवचनत्वात् ब्राह्मणादिगणपठितत्वात् ‘गुणवचनब्राह्मणादिभ्यः' इत्यप्राप्तमेव ष्यनं कृतवान् ॥
__ [भाष्येऽसंस्कृतशब्दप्रयोगः ] . भाष्यकारोपि 'अविरविकन्यायेन' इति द्वन्द्वगर्भे तत्पुरुषे प्रयुयुक्षिते 'सुपो धातुप्रातिपदिकयोः' इति प्राप्तमपि लोपं न कृतवान् । अन्यथा कृत्वा चोद्यं, अन्यथा कृत्वा परिहार इति चात्रचान्यथैवं कथं प्राप्तमपि णमुलमुपेक्ष्य त्काप्रत्ययं प्रायुङक्त॥
तदिदं त्रिमुनिव्याकरणस्य त्रयोऽपि च मुनयः स्खलन्तीति* कमुपालभेमहि !
* यद्यपीदं सर्व सुपरिहरम् । अथापि व्याकरणप्रणेतार एव एवं क्लिश्यन्ति चेत्, अन्येषां तेन को लाभः ?
_1 ज-ख,
तेन-ख, श्लोकेन-च.