________________
235
पंष्ठमाह्निकम्
'वाक्येभ्य एव परिकल्पनया विभज्य
संस्कर्तुमिच्छति पदानि महामतिर्यः । उद्धृ'त्य सौरभविभूषितदृशि कस्मात्
आकाश शाखि कुसुमानि न संस्करोति' इति ।
[व्याकरणस्याध्येयत्वं नापि विधिसिद्धम् ] न च शब्दसंस्कारकर्तव्यतोपदेशी कश्चिदनारम्याधीतो वा प्रकरणपठितो वा विधिरुपलभ्यते, यमनुरुध्यमानाः शब्दस्योपयुक्तस्य 'चाव लेकृष्णविषाणं प्रास्यति' इतिवत् उपयोक्ष्यमाणस्य वा, 'वीहीन प्रोक्षति' इतिवत् कंचनसंस्कारमनुतिष्ठेम। 'स्वाध्यायोऽध्येतव्यः' इति तु विधिः अभिमुखीकरणेन माणवकस्य वा ग्रन्थस्य वा *संस्कारमुपदिशतीति महती चर्चेषा तिष्ठतु। सर्वथा नायं व्याकरणनिवर्त्यप्रत्ययागमवर्णलोपादेशादिद्वारकशब्दसंस्कारोपदेशशङकामपि जनयतीत्यास्तामेतत् ॥
न च शब्दप्रयोगोपायस्य स्थानकरणादेः कोष्ठस्य मातरिश्वनो वा श्रोत्रेन्द्रियस्य वा तदुपलब्धिकारणस्य प्रयोक्तुरात्मनो वा बुद्धेर्वा कश्चित् व्याकरणेन संकारलेशः शक्यक्रिय इति तद्वारकेऽपि संस्कारेऽनुपाय एवं व्याकरणम्॥
न च स्थलपषतीत्यादिकतिपयशब्दव्युत्पादनमेव व्याकरणप्रयोजनतया वक्तव्यम् । तस्यापि कल्पसूत्राद्युपायान्तरलभ्यत्वात्॥
[शब्दतत्त्वज्ञानं न व्याकरणाधीनम् ] यश्चाह -'तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते' (त.वा. 1-3-18) इति तस्य सोपहासमुत्तरं वातिककार एव दर्शितवान् ॥
__ * प्राभाकरभट्टमतभेदेन विकल्पः ॥
1 चि-ख,
२ रूढ-ख.