________________
234
न्यायमञ्जरी . 'अर्थवत्त्वं न चेज्जातं मुख्य र्यस्य प्रयोजनः । तस्यानुषङिगकेष्वाशा कुशकाशावलम्बिनी' इति ।।
[व्याकरणेन शब्दसंस्कारः न संभवति ] अथ कथ्यते–कि प्रयोजनान्तरपर्येषणया ? शस्दसंस्कार एव व्याकरणस्य प्रयोजनमिति तदपि व्याख्येयम्-कः शब्दस्य संस्कारः ? तेन वा कोऽर्थ इति । न हि वीहीणामिव प्रोक्षणम्, आज्यस्येवावेक्षणम् , अग्नीनामिवाधानं शब्दस्य कश्चन व्याकरणकारितः संस्कारः संभवति ॥
नैयायिकादिपक्षे च क्षणिकाः वर्णाः। तेषामुच्चारितनष्टानां कः . संस्कारः ? शरादेरिव न वेगः, नात्मन इव भावना, न शाखादेरिव स्थितस्थापक इति ॥
. . वर्णानां नित्यत्वपक्षेऽपि क्षणिकाभिव्यक्ति कत्वमपरिहार्यम्। अतस्तेष्वपि कः संस्कारः?
[व्याकरेण वर्णादिसंस्कारासंभवः] संस्कारश्च वर्णस्य वा, पदस्य वा, वाक्यस्य वेति विकल्प्यमानः न कस्यचिद्व्यवस्थापयितुं शक्यः। वैयाकरणानां तु निरवयववाक्यवादिनां* पदवर्णयोः संस्कारः सुतरामनालम्बनः ॥
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिकं अन्यान्येव पदानि संस्करिष्यन्त इति चेत्-न-असतां संस्कार्यत्वानुपपत्ते । आह च
_ * वाक्यं अखण्डमिति ते वदन्ति ॥
1 रपि-ख,
त्व-ख.