________________
माहिकम्
233 रक्षोहादिकमपि न व्याकरणफलम् ] यान्यपि रक्षादीनि प्रयोजनानि व्याकरणस्य व्याख्यातृभिरभि. हितानि, तेषामन्यतोऽपि सिद्धेः न ब्याकरणशरणता मुक्ता ।।
रक्षा तावदध्येतपरम्परात एवं सिद्धा। मनागपि स्वरतो वर्णतो वा प्रमाद्यन्तं कचिदधीयानं अन्येऽध्येतारः 'मा विनीनशः,* श्रुतिमित्थ. मुच्चारय' इत्याचक्षाणाः शिक्षयन्तीति रक्षितो भवति वेदः ॥ - ऊहस्तु विविधः मन्त्रसामसंस्कारविषयः। तत्र सामविषयः 'ऊहः कशास्त्रादवगम्यते, याज्ञिकप्रयोगप्रवाहाद्वा। मन्त्रविषयोऽप्येवम्। प्रोक्षणादिसंस्कारविषये तु तस्मिन् व्याकरणमपि कि कुर्यात् ?
आगमस्त्वनन्तरमेव परीक्षितः। आगमगम्यं च प्रयोजनं भवति, न चागम एव प्रयोजनम् ॥
लाघवंत किमुच्यते ? वाल्यात्प्रभूति बहषु वहत्स्वपि वत्सरेषु यन्नाधिगन्तुं शक्यते व्याकरणम् , स चेल्लघुरुपायः कोऽन्यस्ततो गुरु भविष्यति ॥ . . : सन्देहोऽपि न कश्चिद्वेदार्थे व्याकरणेन पराणुद्यते । प्रतिवाक्यमुपप्लवमाननानाविधसन्देहसहस्रविस्रसनफला मीमांसा हि दृश्यते, न याकरणम् । तेन 'रक्षोहागमलध्वसन्देहाः प्रयोजनम्' इति यदुच्यते तन्न साधु व्याहृतम् ॥
यान्यपि प्रयोजनान्तराणि भूयांसि-'तेऽसुरा हेलयो हेलयः' इत्युदाहरणदिशा दर्शितानि, तान्यपि तुच्छत्वात् आनुषङिगकत्वाच्चोपेक्षणीयानि । तदुक्तम् (त-वा-1-3-18)
. * अपस्वराध्ययने हि महाननर्थ उक्तः ॥
1 यौक्तिक-ख
कल्पा -च