________________
232
न्यायमञ्जरी
मिति हि तद्विदः। चोदनामूलमन्वादिस्मृतिसदाचारपुराणेतिहासगम् यो वा स कामं भवतु। व्याकरणस्य तु स्वतस्तदुपदेशसामर्थ्यासंभवात् अङग समाख्यातत्वाच्च न तत्प्रयोजनता युक्ता ॥
प्रयोगनियमद्वारकस्तु धर्मः तस्याप्रयोजनतया निरस्त एवं॥
अर्थप्रयोजनता तु वार्तादण्डनीत्योः प्रसिद्धा, न व्याकरणस्य । अधीतव्याकरणाः अपि दरिद्राः प्रायशो दृश्यन्ते इति न तस्य अर्थ: प्रयोजनम् ॥
कामस्तु वात्स्यायनप्रणीतकामशास्त्रप्रयोजनतामुपगतः न व्याकरण साध्यतां स्पृशति ॥
मोक्षे तु द्वारमात्मादिपरिज्ञानमाचक्षते क्लेशप्रहाणं चाध्यात्मविदः । षत्वणत्वपरिज्ञानं पुनरपवर्गसाधनमिति न साधोयान वादः। तदेवे धर्मादिचतुर्वर्गादेकोऽपि न व्याकरणसाध्य इति स्थितम् ॥
[व्याकरणं न वेदाङ्गम् ] अथोच्यते-सकलपुरुषार्थसार्थसाधनोपदेश विधेः वेदस्य व्याकरण*मवलग्नकमडगम्। अतस्तत्प्रयोजनेनैव प्रयोजनवदिदमिति न पृथक प्रयोजनान्तरमाकांक्षतीति-तदपि परिहृतम्-'यया हि साधुशब्देतरो'पदेशदिशा तस्य तदङगता, सा व्युदस्तैव। न चाङगस्यापि सतस्तस्य तत्सेवाद्विारमपरमस्तीति नष्प्रयोजन्यमेव । न चेदृशमनुपकारकमप्यङग भवितुमर्हति। न हि तत् प्रधानेनाङगीक्रियते। नियोगगर्भो हि विनियोग इति न्यायविदः ॥
* 'मध्यम चाक्लग्नं च' इत्यमरः । संवा सहकरा:
1 या हि साधुशब्दो-ख