________________
षष्ठमा ह्निकम्
231 ___ आये पक्ष दुरुत्तरमितरेतराश्रयत्वम्-शिष्टप्रयोगमूलं व्याकरणम् , व्याकरणविदश्च शिष्टा इति। न ह्यशिक्षितव्याकरणाः तत्संस्कृतगवादिशब्दप्रयोगकुशला भवन्ति ।
मध्यमपक्षे गाव्यादिव्यवहारिणः शाकटिकाः शिष्टाः, तत्प्रयोगमूलं गवादिशब्दसंकारकारि व्याकरणमिति व्याहतमिव लक्ष्यते ॥
तृतीये तु पक्षे गोगाज्यादिशब्दप्रयोगसांकार्यात् किंफलं व्याकरणं भवेत्। वैद्यस्मृतेस्तु युक्तमन्वयव्यतिरेकमूलत्वं, तथा दर्शनादिति । तदनयाऽपि दिशा न प्रयोजनवत्तामुपयाति व्याकरणम् ॥
· . [व्याकरणस्य फलवत्वं सूत्रे नोक्तम् ] अतश्च निष्प्रयोजनं व्याकरणम्, तत्सूत्रकृता स्वयं प्रयोजनस्यानुक्तत्वात। न हि 'अथातो धर्मजिज्ञासा' 'प्रमाणादिज्ञानात् , साधादिज्ञानद्वा निःश्रेयसा धिगमः, इतिवत् तत्र सूत्रकारः प्रयोजनं प्रत्यपीपदत् ॥ . .
सुज्ञानत्वान्न प्रत्यपादयदिति चेत्–किमुच्यते सुज्ञानत्वम् ? यदद्यापि निपुणमन्वेषमाणा अपि न विद्मः, यत्र चाद्यापि सर्वे विवदन्ते॥
. [व्याकरणाध्ययनस्यापुरुषार्थत्वम् ] किंच धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थाः। तेषामन्यतमः किल व्याकरणस्य प्रयोजनमाशङकयेत ॥
तत्र न तावद्धर्मस्तस्य प्रयोजनम्। स हि यागदानहोमादिस्वभावः, तज्जनित संस्कारापूर्वरूपो वा वेदादेवावगम्यते। चोदनैव धर्मे प्रमाण
-
__ * संस्कारः-पुरुषगतातिशयः। मतभेदेन विकल्पः ॥
1व-ख.