________________
230
न्यायमरी
दध्येयमित्यवगम्यते – नैतदप्यस्ति — शिक्षादीनां इतरेतरसाध्यसंकीर्णविविधविध्यपेक्षितवेदोपकार निर्वर्तकत्वेन तदङ्गता सुसंगता । व्याकरतु सुदूरमपि धावनप्लवने विदधतः साधुशब्दप्रयोगनियमद्वारकमेव तदङ्गत्वं संभाव्यते, न मार्गान्तरेण । स च नियमो दुरुपपाद इति दर्शितम् । अतो नांगान्तराणि स्पर्धेतुमर्हति व्याकरणम् ॥
[ व्याकरणं न षडंगान्तर्गतम् ]
निष्कारणषडङ्गवेदाध्ययनविधौ च निष्कारणग्रहणं यथा प्रयोजनः शैथिल्यं सूचयति न तथा प्रयोजनवत्ताम् । श्रुति लिङगाद्यङगत्व प्रमा णापेक्षया षडङ्गता वर्णयिष्यते ॥
[ वाक्यानि च न व्याकरणविषयानि ]
एतेन 'तस्माद्ब्राह्मणेन न म्लेच्छित वे नापभाषित वै, म्लेच्छो ह वा एष 'यद पशब्द:' इति 'एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः स्वर्गे लोकें कामधुक् भवति' इति, 'आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टि निर्वपेत्' इति 'तस्मादशेषा व्याकृता वागुच्यते' इत्यादिवच' नान्तरमूलताsपि व्याकरणस्मृतेः प्रत्युक्ता* ॥
[ शिष्टस्वमपि दुर्वचम् ]
शिष्टप्रयोगमूला तर्हि व्याकरणस्मृतिरस्तु वैिद्यकस्मृतिरिवान्वयव्यतिरेकमूलेति चेत् — के शिष्टा इति 'पृष्टो' वक्तुमर्हसि । किं तदभिमतग वादिसाधुशब्दव्यवहारिणः, गाव्याद्यशिक्षितापशब्दवादिनाः, द्वये वा ?
* तद्वाक्यानामर्थवादरूपत्वादिति हेतुः ।।
+ अन्वयव्यतिरेकमूला वैद्यकस्मृतिरिवेत्यन्वयः ॥
1515-5
पृथक्–ख•