________________
229
षष्ठमाह्निकम् .
परिसंख्या तहि भविष्यतीति चेत-न-शब्दापशब्दयोर्युगपत्प्राप्त्यभावात्। 'तत्र चान्यत्र च प्राप्तौ परिसंख्याऽभिधीयते' इति न्यायात् ॥
[साध्वसाधुशब्दयोः पुण्यपापहेतुत्वमपि न ] यदपि पुण्यपापफलत्वं सुशब्दापशब्दयोरिति गीयते - तदपि न पेशलम्-परिदृश्यमानं अविवादसिद्ध अर्थप्रत्ययोपजननमपहाय परोक्षस्यादृष्टस्य पुण्यपापात्मनः कल्पनानुपपत्तेः ॥
- [अर्थवादवाक्यत्वं तद्विधेः] यश्चायं *'स्वर्गे लोके कामधुग्भवति' इति साधुशब्दस्तुत्यर्थवादः, यश्च स वाग्वज्रो यजमानं हिनस्ति' इत्यपशब्दे निन्दार्थवादः, तत्र पदार्थस्य विस्पष्टदृष्टत्वात् अर्थवादमात्रपर्यवसितौ च 'द्रव्यसंस्कारकर्ममु परार्थत्वात् फलश्रुतिरर्थवादः स्यात्' इति न्यायात् न फलार्थतेति ॥
तदेवं 'साधुभिर्भाषितव्यं, असाधुभिर्न' इति विधिनिषेधयोरनारभ्याधीतयोः श्रूयमाणयोरपि दौस्थित्यात् तन्मूलतया लब्धप्रमाणभावा व्याकरणस्मतिः अंगतामेष्यति वेदस्येति दुराशैव। प्रकरणविशेषपाठे तु तयोस्तदुपयोगादेव न सार्वत्रिको नियमार्थतेति सर्वथा न तन्मूलत्वं व्याकरणस्य ॥
[व्याकरणाध्ययनस्य वैफल्यशका] आह-तहि 'निष्कारणः षडङगो वेदोऽध्ये यो ज्ञेयश्च' इति विधेः शिक्षाकल्पसूत्रनिरुक्तच्छन्दोज्योतिश्शास्त्रवत् व्याकरणमपि वेदाङगत्वा.
___ * 'एकश्शब्दः सम्यग्ज्ञात: सुप्रयुक्तः' इत्यादिः।
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह। ...... यथेन्द्रशत्र स्वरतोऽपराधात्' इत्याद्यन्ती॥
1 तव्यः -च.