________________
228
न्यायमञ्जरी
'यदि साधुभिरेवेति नासाधोरप्रसङगतः ।
नियतं भाषितव्यं चेत् मौने *दोषः प्रसज्यते' इति । न च वाचकत्वादन्यत् साधुत्वमित्युक्तम् , अवाचकस्य प्रयोगप्रसङग एव नास्तीति ॥
. [अपशब्दप्रयोगप्रतिषेधोऽपि न शक्यः ] अथ प्रमादाऽशक्ति कृतापशब्दप्रयोगप्रतिषेधाय नियम आश्रीयतेतत्रापि
प्रमादाऽशक्तिजाः शब्दाः यदि तावदवाचकाः। तेषु प्रसङगो नास्तीति तन्निवृत्तिश्रमेण किम् ॥ अथ वाचकता तेषां अप्रमादोत्थशक्तिवत् ।
न तर्हि प्रतिषेधः स्यात् अप्रमादोत्थ शक्तिवत् ॥ ननु ! अस्ति तावदपशब्दानामशक्यनिह्नवः परिदृश्यमानो लोके प्रयोग इति तन्निवृत्तिफल एष प्रयोगनियमः कथं न भवेत्
यद्येवं अक्षिनिकोचहस्तसंज्ञादेरपि प्रचुरः प्रयोगो दृश्यत इति तद्व्यु दासफलोऽप्येष नियमः स्यात् ||
अपि च विधिफलः सर्वत्र नियमो भवति, 'ऋतावुपेयात्' इत्यादि। निषेधफला तु परिसंख्या 'पंच पंचनखा भक्ष्याः' इति। तदयमपशब्दे प्रयोगप्रतिषेधफलश्च नियमश्चेति व्याहतमभिधीयते ॥
* मौनं खलु शास्त्रविहितम् ॥ * ऋतावेव, उपेयादेवेति नियमस्यं सम्मतत्वात् ॥
1 श-ख,
रक्त-च.