________________
षष्ठमाह्निकम्
227 ध्यांश्च शब्दानुपदर्य, नियमो विधातव्यः 'एभिर्भाषतव्यं, एभिन' इति । तत्र यधुभये ते शब्दाः प्रतिव्यक्ति नामग्रहणपरिगणनपुरस्सर. मुपदश्यॆरन्, तदयमर्थः कल्पशतजीविनः भगवतः परमेष्ठिनोऽपि न विषयः, प्रविततव'द'नसहस्रसंकुलमूर्तेरनन्तस्यापि न गोचरः, वाचस्पतेर्न भूमिः, सरस्वत्या अतिभारः, तेषामानन्त्येन दर्शयितुमशक्यत्वात् ॥
[साध्वसाधुशब्दवर्गीकरणासंभवः ] . अथ किंचिदुपलक्षण*मवलम्य तेषां वर्गीकरणमुपेयते – हन्त तहि दृश्यताम् ! न च तत्संभवति ॥
अविभक्ता हि शब्दत्वजातिः शब्दापशब्दयोः ।
न चावान्तरसामान्ये केचिद्वर्गद्वये स्थिते॥ .. न हि साधुत्वसामान्यं इतरेषु व्यवस्थितम् । - इतरेष्वप्यसाधुत्वसामान्यमुपलभ्यते ॥
तदनुपलम्भादसंभवति वर्गीकरणकारणे कथमेष नियमो विधीयतेति नावधारयामः ॥
___ [ साधुशब्दभाषणनियमासंभवः ] - किंच नियमार्थेऽपि शास्त्रे वक्तव्यं-कीदृशो नियमार्थ इति–किं साधुभिरेव भाषितव्यम् , भाषितव्यमेव नाधुभिरिति। उभयथा च प्रमादः। आह हि (त-वा-1-3-18)
* उपलक्षणं-परिचायकम् ॥ + 'न हि' इत्यनुवर्तते ॥
1 च-क,
मेकेष्वेव-ख.