________________
226
- न्यायमञ्जरी लक्षणमतिसूक्ष्मयाऽपि दृष्टया शक्यमुत्प्रेक्षितुम् । अतो वाचकावाचकावेव साध्वसाधू इति स्थितम् ॥
तेन तयोः प्रवर्तमानौ * विधिनिषेधाविमौ व्यथौ भवेताम् । कथम् (तं-वा-1-3-18)
साधुभिर्भाषणं तावत् प्राप्तत्वान्न विधीयते ।
अवाचकनिषेधश्न नाप्राप्तेरवकल्पते || न हि 'सलिलं पिबेत्' 'अनलं न पिबेत्' इति विधिनिषेधौ संभवतः । सलिलपानस्य स्वत: प्राप्तत्वात् , अप्राप्ते च शास्त्रस्यार्थवत्त्वात् ! ज्वलनपानस्य च कस्यांचिदप्यवस्थायां अप्राप्तेः प्रतिषेधानर्थक्यात् । प्राप्तिपूर्विका हि प्रतिषेधा भवन्ति । न हि ग्रीष्मे ज्वालायमानमारव: मार्गभ्रमणोज्झम्भिततृषातिशयतनूकृततनुरपि तनूनपातं पातुं लवणोप' योगोपनीततृङविकारः करभोऽपि यतेतेति ॥
. [साध्वसाधुशब्दयोः पुण्यपापहेतुत्वमपि दुर्वचम् ]
तत्रैतत्स्यात्-गवादेर्गाव्यादेश्च वाचकत्वाविशेषेऽपि साध्वसाधुशब्दोच्चारणकरणकपुण्यपापप्राप्तिपरिहारप्रयोजननियमविधानाय शास्त्रसाफल्यं भविष्यति। तदुक्तम् (वा-प-3-3-30)
'वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः' इतिएतदपि दुर्घटम्-'प्रतिपदमशक्यत्वात, वर्गीकरणनिमित्तस्य चासं. भवात् । अवश्यं हि विधि वा निषेधं वा विधित्सतां प्रविषेध्यांश्च निषे०
* विधिनिषेधौ-साधुभिर्भाषितव्यम्, असाधुभिर्नेति ॥ * अवाचकस्वरूपत्वात् असाधुत्वस्य ।।
1 ला-ख,
प्र-ख.