________________
225
षष्ठमाह्निकम्
यस्तावदनधिगतव्याकरणसरणिः पामरादिः, सः गाव्यादिशब्दश्रवणे सति तावत्येव जातसन्तोषः तत एवार्थमवगच्छन् गवादिशब्दानुमान व्यवधानम' नारुह्येव व्यवहरति । हेमगिरिमुत्तरेण यादंशि मादृशैरनुभूतानि तरुकुसुमफलानि, तथाविधास्तस्य साधुशब्दा इति सर्वात्मनाऽनवधारितसंबन्धः स कथं तावदनुमातुं प्रभवेत् ?
येऽपि व्याकरणार्णवकर्णधाराः चिराभ्यस्तसूक्तयः सूरयः, तेऽपि गाव्यादिभिर्व्यवहरन्तोऽनुमानक्रममननुसरन्त एव तेभ्योऽर्थ प्रतिपद्यन्त, इति प्रत्यात्मवेदनीयमेतत् । तस्मात् वाचकत्वमेव साधुत्वम् । "एतच्च गवादिष्विव गाव्यादिषु दृश्यत इति तेऽपि साधवः स्युः ।।
असाधुत्वमप्यवाचकत्वमुच्यते। तच्च वायसवाशितादिषु व्यवस्थित न वर्णात्मकेषु व्यक्तवागुच्चार्यमाणेषु शब्देष्विति न तेऽसाधवः ॥
... [साध्वसाधुशब्दयोः विलक्षणबोधजनकत्वं नास्ति] .
ब्रूयात्-नार्थप्रतीतिसाधनत्वमात्रं साधत्वम , धूमादिभिरतिव्याप्तेः, अपि तु *विशिष्टक्रियाकरणत्वम् । तच्च गवादिष्वेवास्ति, न गाव्यादि ष्विति न ते साधव इति–एतदप्यसमीक्षिताभिधानम्-अभिधानक्रियाकारणत्वं हि वाचकत्वमिति पूर्वमेव सुनिपुणमुपपादितम् । तच्च गवादिषु गाव्यादिषु च समानमिति सर्व एव साधवः ॥
[ साध्वसाधुत्वे न शास्त्रगम्ये ] अथ लक्षणानुगतत्वं, तद्वाह्यत्वं च साधुत्वमसाधुत्वं च वर्ण्यतेतदयुक्तम्-पारिभाषिकत्वप्रसङगात्। न चान्यत्किमपि साध्वसाधु
* विशिष्टेति । विलक्षणेत्यर्थः ॥ + लक्षणं-पाणिन्यादिसूत्रम् । तच्चाग्रेस्पष्टीभविष्यति ॥