________________
224
न्यायमञ्जरी व्रीहिभिर्यजेत' 'न कलंजं भक्षयेत्' इति व्रीहिकलंजस्वरूपस्य लोकतो. ऽवगतौ तद्विषयविधिनिषेधावबोधो न दुर्घटः। इह तु वाहय इव कलंजमिव न साध्वसाधु'शब्दस्वरूपं लोके प्रसिद्धम् ; प्रत्यक्षादिप्रमाणातीतवात्। प्रत्यक्षं तावत् साध्वसाधुशब्द'प्रविवेकेन लोकतोऽवगम्यते। कृतश्रमश्रवणयुगलकरणिकासु प्रमितिषु शब्दस्वरूपमेव केवलं विषयता मुपयाति । न जातु तद्गतं साधुत्वमसाधुत्वं वा। न हि शब्दत्वादिजातिवत् , उदात्तादिधर्नवच्च साध्वसाधुतायां कस्यचिदपि श्रेत्रः प्रत्ययः प्रसरति । प्रत्यक्षप्रतिषेधे च सति तत्पूर्वकसंबन्धग्रहणासंभवात् अनुमानमपि निरवकाशमेव । शब्दस्तु द्विविधः पुरुषप्रणीतः, वैदिको वा। तत्र पुरुषप्रणीतः प्रत्यक्षानुमानविषयीकृतार्थप्रतिपादनप्रवण एव भवति इति तदपाकरणादेव पराकृतः। वैदिकस्तु संप्रति चिन्त्यो वर्तते। स हि सिद्धे साध्वसाधुत्वे तद्विधिनिषेधे व्याप्रियते। न पुनः तत एव तत्सिद्धिर्युज्यते। तथाऽभ्युपगमे वा दुरुत्तरमितरेतराश्रयत्वमवतरतिविधिनिषेधसिद्धौं साध्वसाधुशब्दसिद्धिः, साध्वसाधुशब्दसिद्धौ च विधिनिषेधसिद्धिरिति ॥
____ [साधुस्वमपि दुर्वचम् ] किंचेदं साधुत्वं नाम ? यदि वाचकत्वम्, गाव्यादयोऽपि सुतरां वाचका इति तेऽपि कथं न साधवः ? अर्थावगतिसाधनाद्धि साधुत्वम् । तच्च यथा गाव्यादिषु झटित्येव भवति, न तथा गवादिष्विति प्रथमं त एव साधवः ॥
एवं च यदाहुः—'असाधुरनुमानेन* वाचकः कैश्चिदिष्यते'
इति; तदत्यन्तमसांप्रतम; सोपानान्तरप्रतीतिप्रसक्तेःविपर्ययस्य च लोके प्रसिद्धत्वात् ॥
-साधुशदानुमानद्वारा ॥
1 शब्द-ख