________________
षष्ठमाह्निकम्
223 साधुभिरेव शब्दैर्व्यवहरन दृष्ट एकाको ? तैश्च नानार्थक्रियासाधनभूत. भरिव्यवहारं निर्वहन् तदनुचरः परिज्ञातो न भूयः केवलसाधुशब्दप्रयोग. कुशलः कल्पनीयः। कुतश्चासौ लभ्यते ? तस्मान्न वृद्धव्यवहारावेदार्थ व्युत्पत्तिरुपपद्यते ॥
[ व्याकरणस्य वेदार्थानिर्णायकत्वम् ] अथ व्याकरणमेव वेदार्थव्युत्पत्तौ उपायतां प्रतिपत्स्यते इति मन्यसे; तदपि कथमिति चिन्त्यम् । न हि *विवरणकार इव पाणिनिर्वेद व्याचष्टे। व्याचक्षाणो वा परिमितशिनि अस्मादृशे, द्वेषादिदोषकल. षितमनसि तस्मिन् अस्मदादीनां वेदार्थं बुभुत्समानानां किदशी विस्रम्भः ? किं यथैष व्याचष्टे, तथैवं वेदार्थः, अन्यथा वेति ॥
यदि तु साध्वसाधुशब्दविवेककरण द्वारेण व्याकरणं कारणं वेदार्थव्युत्पत्तरित्युच्यते-तत्रापि-स्वातन्त्र्येण वेदस्येव व्याकरणस्य शास्त्रस्वानुपपत्तेः। अङगत्वप्रसिद्धेश्च वैदिकविध्यपेक्षितार्थसंपतित्वमस्य "नूनमेषितव्यम्। 'तत् कस्य विधेः शेषतया व्याकरणमवतिष्ठतेति वाच्यम् । साधुभिर्भाषितव्यं, असाधुभिर्नेत्यनयोरेव विधिनिषेधयोरिति चेत् ; नन्वेतावेव विधिनिषेधौ तावद्विचारयामः। कि क्वचित्प्रकरणे पठितौ? किमनारभ्याधीती? क्लप्ताधिकारी, कल्प्याधिकारी वा? इति ।
[ साध्वसाधुशब्दविभागसंभवाक्षेपः] आस्तां चेदम् ! वितता खल्वियं चिन्ता। साध्वसाधुशब्दस्याप्रसिद्धत्वात् किंविषयाविमौ विधिनिषेधौ स्यातामितीदमेव चिन्त्यताम् ।
* विवरणकार:-व्याख्यानकारः।।
1 क-ख,
नूत-ख,
३ सा-खे.