________________
222
न्यायमञ्जरी तथाप्यतीव प्रविरलसंचारोऽसौ व्यवहार इत्यनुपादेय एव वैदिकशब्द
व्युत्पत्तः ॥
[व्याकरणेनापि वेदार्थावधारणासंभवः] अथ व्याकरणस्य वेदाङगत्वात् ततः साध्वसाधुशब्दप्रविभागमवगच्छन्तः 'साधुभिर्भाषितव्यं, असाधुभिर्न' इति विधिनिषेधनियमितमतयः साधुभिरेव शब्दैर्व्यवहरन्तो विद्वांसः तनीयसैव क्लेशेन वैदिकेष्वपि शब्देषु व्युत्पत्तिमासादयेयुरिति कथ्यते- तदपि न चतुरश्रम् - इतरेतराश्रयप्रसङगात्। वेदे हि सिद्धप्रामाण्ये तदङगभूतव्याकरणाभ्याससमासादितसाध्वसाधुशब्दप्रविवेक वृद्धव्यवहारपरिचयपुरस्सरा वैदिकशब्देषुव्युत्पत्तिः। तद्व्युत्पत्तौ च सत्यां बोधकत्वादप्रतिपादकत्वलक्षणमप्रामाण्यमपोज्झतो वेदस्य प्रामाण्यमिति ||
__ [प्राकृतव्याकरणस्य वेदाङ्गस्वापत्तिः] अथ वेदाङगमिदमिति श्रद्धाम'वधूय यदृच्छाधीतेनैव व्याकरणेन पूर्वोक्तकार्यसिद्धेर्नेतरेतराश्रयमिति वर्ण्यते-किमिदानीं नाटकप्रकरणादि काव्योपयोगिसंस्कृतभाषाविशेषपरिज्ञानायैव प्राकृतलक्षणवव्याकरणमध्येतव्यम् ? तथाऽभ्युपगमेवाऽनङगत्वाविशेषात्-प्राकृतलक्षणप्रसिद्धशब्दव्यवहारानुसारेण वैदिकशब्दव्युत्पत्तिरापाद्यत इति सुतरां दुस्स्थत्वं ॥
अपि च सत्यपि व्याकरणाधिगमे, श्रुतेऽपि 'साधुभिर्भाषितव्यम्' इत्युपदेशे, *सत्यं वदत ! वेदार्थानुष्ठानपरायणोऽपि कृतबुद्धिरपि निषिद्धाचरणपराङमुखोऽपि श्रोत्रियोऽपि श्रद्दधानोऽपि यदि कश्चित् केवलैः
___ * 'सत्यं वदत-इति शपथवाक्यम्। व्याकरणादिपठनमात्रेण न कश्चित्तादृशो दृश्यत इति भावः ॥
1 मन-क,
2 द-घ.