________________
षष्ठमाहिकम्
221 अपि च, रे मूढ ! स्वयं रागादि'मान्नार्थ वेत्ति ? वेदस्य कोऽर्थो रागादिमतः ? प्रत्यक्षमतीन्द्रियेऽर्थे मा प्रवतिष्ट, न तु रागादिमान् 'अग्नि होत्रं जुहुयात् स्वर्गकामः' इतिवाक्यावपि अग्निहोत्राख्यं कर्म स्वर्गसाधनमिति नावगच्छेत् ॥ ..
अतीन्द्रियेऽर्थे नियता कुतोव्युत्पत्तिरिति चेत्, उक्तमत्र, वेदवत्तद्व्यवहारस्य तदर्थपरिगमोपायस्य सुचिरप्ररूढत्वात्। वेदार्थश्च, तदव. गमश्च, तदुपायश्च, तदनुष्ठ ने च नाद्यत्वे प्रवृत्तानि । त नि केधिनते. ऽनादीन्येव। अस्मन्मते तु जगत्सर्गात्प्रभृति प्रवृत्तानि । कस्तेष्वद्य पर्यनुयोगावसरः? सेयमनेन पापकारिणा 'खादेच्छ्वमांसं' इत्याद्यपभाषणेन केवलमवीचिकेदारकुटुम्बिनमानं *कर्तुं वेदनिन्दैव मन्दमतिना कृता, न दूषणमभिनवं किंचिदुत्प्रेक्षितमिति ||
[वेदार्थव्युत्पत्यसंभवः ] अथापर आह-किमेष तपस्वी पराणुद्यते ? कियनेनापराद्धम् ? किमनेन विरुद्धमभिहितम् ? न हि लोकतो वेदार्थे व्युत्पत्तिरवकल्पते ॥ . कोऽयं लोको नाम ? किं यः कश्चित् प्राकृतः, उत वैयाकरणः संस्कृतमतिः ? इति ॥ - तत्र शाकटिकाः साधुशब्दप्रयोगानभिज्ञमनसो निसर्गत एवाक्षत. कण्ठाः वराकाः संस्कारबा|ः गाव्यादिभिरेव शब्देर्व्यवहरन्ति । तैश्च व्यवहरन्तः कथमिव वैदिकेषु शब्देषु व्युत्पत्तिमवाप्नुयुः ? · · यद्यपि चास्ति 'एषि' 'एमि' इति कश्मीरेषु, 'गच्छ' इति दर्वाभिसारेषु, 'करोमि' इति मद्रेषु कतिपये साधुशब्दा पामरैरपि प्रयुज्यन्ते ;
* अवीची-नरकविशेषः। नरकक्षेत्रस्वामिन मित्यक्रोशोक्तिः। वेद. निन्दायास्तावदेव फल मित्यर्थः ॥
1 मतः-ख,
'क-ख.