________________
220
न्यायमञ्जरी पणिनिरिच, 'मस्त्रिगुरुः' इति ब्रुवन् पिङगल इव, 'हस्त कर: पाणिः' इति कथयन्नभिघानमालाकार इव स्वयमुपदिशति-'एषोऽस्य मामकस्य शब्दस्यार्थः' इति । तस्मात्सर्वथा दुरवगमो वेदार्थः तदाह
स्वयं रागादिमानार्थं वेत्ति चेत्तस्य नान्यतः।
न वेदयति वेदोऽपि वेदार्थस्य कुतो गतिः' इति । अथ निगमनिरुक्तव्याकरणवशेन पदार्थकल्पना क्रियते ; तहि नानामतित्वात् उपदेष्ट्रना*, अनेकार्थत्वाच्च 'धातूनां ना'म्नां, उपसर्गनिपातानां च न नियतः कंचिदर्थो व्यवस्थापयितुं शक्यते। अन्यथा तत्कल्पनासंभवात्। आह च-(प्र-वा-1-320)
'तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ। "खादेच्छ्वमांसमित्येषः नार्थ इत्यत्र का प्रमा' इति ॥
[वैदिकशब्पा आपि लौकिका एव ] तदेतत् बघिरस्य रामायणं वणितमस्माभिः, यू एवमपि श्रुत्वा वेदार्थपरिंगमाभ्युपायं मृगयते। अनेन हि पवक्तिन वाक्यार्थपरिगमोपाय प्रकटनेन सर्वमपाकृतं भवति । उक्तं हि-नाभिनवाः केचन वैदिकाः शब्दाः। रचनामात्रं वेदे भिद्यते, न तु पदानि । सर्गात्प्रभृति च प्रवृत्तोऽयं वेदविदांव्यवहारः। तत एव दीर्घप्रबन्धप्रवृत्तात् अद्यत्वे वयसि व्युत्पद्यामहे । व्युत्पद्यमानाश्च तं तमर्थं प्रतिपाद्यामहे ||
[वेदार्थावगमसहकारीणि] किंच वेदार्थस्य परिज्ञानौपयिकानि व्याकरणमीमांसादिशास्त्राणि क्व गतानि ? यदेषु जीवन्मु न वनार्थोऽवधार्यते ॥
___ * प्रसिद्धं हि ' नैको ऋषिर्यस्य मतं प्रमाणम्' इत्याहि ॥
1 ना-ख,
न चे-क.