________________
219
पष्ठमाहिकम्
प्रज्ञावल्ली विशाला फलति फलमिदं स्वादु वाक्यार्थतत्त्वं .. .. .
नैराकांक्ष्यं तु सान्द्रे हृदय उपगते यान्ति यस्मिन् पुमांसः ।। आह च
पदात्प्रभृति या चैषा प्रज्ञा ज्ञातुविजृम्भते। पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति ।। तस्मादनया नीत्या 'संसर्ग प्रत्ययो भवति साधुः । संसृष्टाश्च पदार्थाः वाक्यार्थ इति न्यवेदि प्राक् ।। यश्चैष लोकव्यवहारसिद्धिः
प्राशि वाक्यार्थमितावुपायः । - स एव वेदेऽप्यवधारणीयः तत्रापि तान्येव पदानि तेर्थाः ॥
-हति वाक्यार्थविचार:
.. [वेदार्थावधारणप्रकारविचारोपक्षेपः ] . आह-लोके प्रमाणान्तरपरिच्छेद्यत्वात् वाक्यार्थस्य तदवगमोपायत्वं शब्दानां योजयितुं शक्यते । वेदार्थस्तु-अतीन्द्रियः। न च रागादिदोषकलुषमनसामस्मदादीनां अतीन्द्रियपदार्थदर्शनकौशलमस्ति। तददर्शने . च तत्र वृद्धव्यवहारात् व्युत्पत्तिरेव न संभवति। सोऽहमद्य वेदार्थ बुभुत्समानो वेदविदं कंचिदाचार्यमभिगच्छेयम्। सोऽप्यतीन्द्रियार्थदर्शी न भवतीति तस्यापि तथैव व्युत्पत्त्यभाव इति तेनाप्यन्यः कश्चिदभिगन्तव्यः । सोऽप्यन्यमित्यन्धपरम्परा प्राप्नोति। न च वेद एव, 'वृद्धिरादैच' इति
* सान्द्रे-संसर्गज्ञानवति॥
-ख,
लसद्भिः -ख,
सं-खे.