________________
218
. न्यायमञ्जरी 'प्रकृतिप्रत्ययौ यद्वत् अपेक्षेते परस्परम् ।
पदं पदान्तरं तद्वत् वाक्यं वाक्यान्तरं तथा' इति ॥ अयमेव पक्षः श्रेयान् यत् संहत्यकारित्वं पदानां, असंकीर्णार्थत्वं च ।।
निरपेक्षे प्रयो गे'ऽयश्शलाकाकल्पना भवेत् । तदन्विताभिधाने तु पदान्तरमनर्थकम् ।। संहत्यकारिपक्षे तु दोषो नैकोऽपि विद्यते । तेनायमुपगन्तव्यः मार्गो विगतकण्टकः ।।. अभिधात्री मता शक्तिः पदानां स्वार्थनिष्ठता । तेषां तात्पर्यशक्तिस्तु संसर्गावगमावधिः ।।. तेनान्विताभिधानं हि नास्माभिरिहं मृष्यते ।
*अन्वितप्रतिपत्तिस्तु बाढमभ्युपगभ्यते ।। . संहत्यकारकत्वाच्च पदानां न स्वार्थाभिधित्सयैव समुच्चारणम् , अपितु प्रधान कार्यमेव कर्तुम् । तदुक्तम्
'वाक्यार्थमित ये तेषां प्रवृत्तौ नान्तरीयकम् ।' पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्' इति ॥
[वाक्यार्थबोधविचारोपसंहारः] सेयं व्युत्पत्तिमूला पदविसरसमुद्भिद्यमानाङकुरश्रीः संस्कारोदारपत्रा कुसुमचयवती प्रोल्लसद्भिः पदार्थैः ।
* अन्वितेति वस्तुस्थित्यभिधानम् ॥
1 गो-क,
मत-क, प्रत्य-ख.