SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ षष्ठमाह्निकम् 217 ज्यापारात्, व्यापारस्यैतदीयस्य निराकाङ्क्षप्रत्ययोत्पादनपर्यन्तत्वात् । तथा हि अन्यथैव प्रवर्तन्ते प्रत्यक्षाशुद्भवा धियः। अर्थ पूर्णमपूर्ण वा दर्शयन्त्यः पुरः स्थितम् ॥ अन्यथैव मति'श्शाब्दी' विषयेषु विजृम्भते। प्रतिपत्तुरनाकाडक्षप्रत्ययोत्पादनाविधिः ॥ अत एव पदं लोके केवलं न प्रयुज्यते । न हि तेन निराकाडक्षा श्रोतुराधीयते मतिः ॥ .. [शक्तेरभावेऽपि संसर्गभानसंभवः] नन अभिधानव्यतिरिक्तः कोऽन्यः शब्दस्य कृत्स्नफलपर्यन्तः प्रत्यायनात्मा व्यापारः? अस्ति कश्चित् , यः सर्वैरेव संसर्गवादिभिरप्रत्याख्येयः। न हि संसर्गोऽभिधीयते, प्रतीयते च वाक्यात् ॥ ननु संसृष्टाभिधाने सति संसर्गः प्रतीयेत, नान्यथा नैतदेवम्संहत्यकारित्वादेव संसर्गावगतिसिद्धेः। न हि संहत्यकरणम्, असंसृष्टं च । कार्य क्वचित् दृश्यते ॥ अपि च प्रकृतिप्रत्ययौ परस्परापेक्षमर्थमभिदधाते। न च प्रकृत्या प्रत्ययार्थीऽभिधीयते, नियोग स्या धातुवाच्यत्वात्। न च प्रत्ययेन प्रकृत्यर्थोऽभिधीयते, 'नियोगा देः लिङवाच्यत्वानुपपत्तेः । न च तौ पृथक्पृथक स्वकार्य कुरुतः । एवं पदान्यपि परस्परापेक्षीणि संहत्य कार्य करिष्यन्ति । न च परस्परमर्थमभिधास्यन्ति वाक्यान्यपि प्रकरणपतितान्येवमेव। तदुक्तम् * परस्परापेक्षितार्थप्रतिपादनात् ॥ 1 शब्दे-ख । स्व-ख ३ यज्या, गागा-ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy