________________
न्यायमञ्जरी
न चेदमपूर्ववस्तु वणितम् । अभिहितान्वयवादिनः विशेष एवाभिहितान्वय' मिच्छन्ति । सामान्येऽपि हि पदं वर्तते, विशेषे वाक्यम् । वाक्यार्थप्रतीतये च अभिहितान्वय आ श्रीयते इति प्राक्तन एवेष्टः पन्था वेदितव्यः ॥
216
[ पदानां संहत्य कारित्वम् ]
-
कथं तर्ह्यभिधानिकी व्यवहारः ? सङ्कुलमिवैनं पश्यामः, - सर्वत्र दोषसंभवात् - उच्यते - न कदाचिदत्र सङकुलता ।. संहत्यकारीणि हि पदानीत्युक्तम् । समुदितैः पदैरेको वाक्यार्थः प्रत्याय्यते । स च गुणगुणि भूतेतर पदार्थसंसृष्टः कश्चित्पदार्थ एवेति किमत्र
सङकुलम् ॥
[ पदानामन्वयज्ञापकत्वम् ]
ननु किमयमन्विताभिधानपक्षः पुनरुत्थापयितुमिष्ट: ? मैवम्नेदमन्विताभिधानम् । कथं तहि संहत्यकारिता पदानाम् ? उच्यतेसुहत्यकारिताऽप्यस्ति न चान्विताभिधानम् । * अन्वितमर्थ पदानिसंहत्य संपादयन्ति न त्वन्वितमभिदधति । किमिदानीं कुर्वन्ति वाक्यार्थं पदानि, घटमिव मृदादीनि - एतदपि नास्ति - ज्ञापकत्वात्तेषाम् । का तर्हियं वाचोयुक्तिः, संहत्यकारीणि पदानि न चान्वितमभिद - धतीति ? इयं वाचोयुक्तिः । पदान्यन्वितं प्रत्याययन्ति, नान्वित.
मभिदधति ॥
[ अन्वये शक्त्यसम्भवः ]
नाभिधात्री शक्तिरन्वितविषया, किन्त्वन्वयव्यतिरेकानुगत निष्कृस्वार्थविषयैव । तात्पर्यशक्तिस्तु तेषामन्वितावगमपर्यन्ता सह
*
अन्वितं वस्तुगत्याऽन्वयविशिष्टम् ॥
1 आ-ख
2
ण-ख