________________
215
षष्ठमाह्निकम्
न हि द्वे अनुभूयेते क्रिये एते पृथस्थिते।
अभिधानक्रिया चान्या वाच्यस्था चान्वयक्रिया॥ ते हि क्रमेण वा स्याताम्, युगपद्वा? क्रमपक्षे पूर्वमन्वयक्रिया चेत्, तदिदमन्विताभिधानमेव, नान्वीयमानाभिधानम्। पूर्व चेदभिधा नक्रिया, सोऽयमभिहितान्वय एव, नाभिधीयमानान्वयः। युगपत्तु क्रियाद्वयसंवेदन नास्ति । अर्थगतायः क्रियायाः शब्दप्रयोगकालेऽनुपलम्भात् ॥
अभिधानक्रियैवैका तदभिज्ञैः परीक्ष्यते ।
अन्वीयमानतार्थानां अभिधानाद्विना कुतः॥ ___ गौः शुक्ल इति जातिगुणयोरेकद्रव्यसमवेतयोरपि शब्दमन्तरेण कुतोऽन्वयमवंगच्छामः ॥
उक्ते'नूतनतवेयं न पुनर्वस्तु नूतनम् । — न चात्रापि निवर्तन्ते दोषाः पक्षद्वयस्पृशः ॥
- [अन्विताभिधाने पज्ञान्तरम्] अन्ये मन्यन्ते-*सामान्येनान्विताभिधानम् , विशेषतश्चाभिहितान्वय इति । गोशब्दो हि स्वार्थमनवगतविशेषगुणक्रिया सामान्यान्वितमभिधत्ते. तावत्यन्विताभिधानम्। शुक्लादिगुणविशेषसबन्धस्तु पदान्तरादवगम्यते । सोऽयं विशेषोऽभिहितान्वय इति–एतदपि तादृगेव ॥
दोषोऽन्विताभिधाने यः सामान्येऽपि स तादृशः। दोषस्तुल्यो विशेषेऽपि यश्चोक्तोऽभिहितान्वये ।।
* सामान्येन—सामान्याकायेण-आपाततः॥ + सामान्य-जातिः॥
1 नं-ख,
क्ति-क.