________________
214
भ्यायमञ्जरी - [भन्वितामिधाने शब्दानामसंस्पर्शिवप्रसंगः ]
अन्विताभिधानपक्षे च कथमङगुल्यग्रवाक्येऽपि नान्वयः स्यात् ? शाब्दोऽस्त्येव समन्वय इति चेत्, अर्थासंस्पर्शी शब्दः प्राप्नोति, बहिरन्वयाभावात् । प्रकाशकत्वमात्रं व्यापार इति चेत्-बाढम्-तत्त्वन्वि. ता'नन्वितविषयं वेदितुं युक्तम् , न पुनरन्वितविषयमेवेति शक्यते नियन्तुम् । दशदाडिमादिवाक्यमनन्वितार्थप्रतिपादकमपि दृश्यते यतः ।. न तत् वाक्यमिति चेत्, अडगुल्यग्रवाक्यमपि न वाक्यमेव । आधाराधेयक्रियासंसर्गप्रतीतिस्तु भ्रममात्रम्। तस्मात् अन्वितमर्थमभिदधति पदानीत्यसमीचीनम् ॥
__ [अभिहितान्वयेऽपि क्लेश:] *त त्किमयश्श लाकाकल्पाः परस्परमसंसृष्टा एव पदार्थाः पदैरुच्य. न्ताम् ? एतदपि नास्ति । तथाविधव्यवहाराभावात्। पश्चादन्वयस्य च दुरवगमत्वात् , विरम्यव्यापारस्य चासंवेदनात्। तस्मात् पक्षद्वयमपि न क्षेमाय । तदुक्तम्
मतद्वयमपीदं तु नास्मभ्यं रोचतेतराम्। कुतोऽन्विताभिधानं वा कुतो वाऽभिहितान्वयः॥
[उक्तोभयवादमध्यस्थी वादः अन्या तु वाचो युक्तिः कैश्चित्कृता-अन्वीयमानाभिधानं, अभिधी. यमानान्वयश्चेति । साऽपि न हृदयङगमा॥
* दारुशलाकाः कदाचित् वज्रलेपसंसृष्टा वा भवेयुः॥ * अन्वयार्हपदार्थाभिधानम्, पदार्थाभिधानेनान्वयाभिधानं च ॥
1 त्त्व-ख,
किं श-ख.