________________
213
षष्ठमाह्निकम्
[ अमिधात्रीशक्तिः पदार्थ एव] * ननु आकाङक्षितयोग्यसन्निहितार्थोपरक्तस्तस्यार्थ इत्युक्तम्-'नैतद्युक्तम्-सर्वदा संहत्यव्याप्रियमाणमेतत्पदं पश्यतस्तवायं भ्रमः। अर्थः तावानस्य, यावत्यभिधात्री तस्य शक्तिः ।।
कियति तस्याभिधात्री शक्तिः? कियति तस्यानभिधात्री शक्तिः? यावत्तमर्थं अन्योन्यमाकाङक्षितैश्च सन्निहितैश्च संयुज्यमानं न मुंचति ॥ कियन्तं च न मुंचति, गोत्वमात्रं, तद्वन्मानं वा? इत्यतस्तावत्येवाभि धात्री शक्तिरन्वयव्यतिरेकाभ्यां अस्य निर्धार्यते ।।
अतः परमेकस्य पदस्याप्रयोगात् सर्वदा सङघातकार्यरहितकेवलस्वकार्यचातुर्यानवधारणात् प्रधानकार्ये *तात्पर्यशक्तिरस्य व्याप्रियते, नाभि धात्री। तां च पृथगविवेचयता भवता अन्विताभिधानमभ्युपगतम् । तच्च न युक्तम्-तर्वत्र अभिधात्र्याः शक्तेरविशेषात् । पदार्थनियमा नव धारणं पदान्तरोच्चारणवैफल्यमित्यादिदोषाणामनपायात् ॥
.. [ अन्विताभिधाने विरोधप्रदर्शनम् ] | येनान्वितमर्थमभिदधाति गोशब्दः, तदनभिधाने, तदन्वितानवगमात् येन सह संसर्गः, स न गृह्यते, तत्संसृष्टश्च गृह्यते इति विप्रतिषिद्धं स्यात् । तदभिधाने वा तद्वत्सर्वाभिधानमिति एकमेव गोपदं सर्वार्थ · भवेत्। तस्मान्न सर्वत्राभिधात्री शक्तिः पदस्योपपद्यते इति नान्विताभिधानम् ॥
- * कार्य-आनयनादि ॥
सर्वत्र-संसर्गाशेऽपि ॥
1 न-ख,
व-क.