________________
212
न्यायमञ्जरी न भवेत् । अस्ति तु वाक्यत्वम्। तेन मन्यामहे अस्ति शाब्दोऽन्वय इति अत्रापि अन्विताभिधानं न विरुद्धम्। बाधकस्त्वन्यविषय* एव, न शब्दसंसर्गविषय इत्युक्तम् । अत एव स्वसामर्थ्यसिद्ध'निनिबन्धबोधकत्व'व्यापारे शब्दे स्वतो वेदप्रामाण्यमनाकुलं निर्वक्ष्यति, अपौरुषेयतया विप्ल. वासंभवात् । स्वव्यापारस्य च स्वत एव शुद्धत्वमित्यलमतिप्रसङगेन ।।
इत्यन्विताभिधानेन वाक्यार्थज्ञानसंभाधात् । व्युत्पत्तिरहितः प्राज्ञैः प्रहेयोऽभिहितान्वयः ।।
[अन्विताभिधानवादखण्डनम्] तदेतदपि नानुमन्यते--यदुक्तं वृद्धव्यवहारात् व्युत्पत्तिरिति-तत् सत्यम्। वाक्येन व्यवहार इत्येतदपि सत्यम्। . शिबिकोद्यं चन्नुव सर्वाणि पदानि कायें संहत्य व्याप्रियन्त इत्येतदपि सत्यमेव ।।
व्युत्पत्तिश्चिन्त्यताम् -- किमेकघटनाकारसङधातकार्यनिष्ठेव सा? किं वा पदार्थपर्यन्ता ? इति । पूर्वस्मिन् पक्षे प्रतिवाक्यं व्युत्पत्तिरपरि. हार्या। सा च बहुप्रमादेत्युक्तम्। पदार्थपर्यन्तायां तु व्युत्पत्तौ नूनं निर्धारणीयं 'इयान पदस्यार्थः' इति । भवद्भिरपि शकटावयवदृष्टान्तवर्णनेन पदव्यापारनिर्धारणमङगीकृतमेव । इतरथा हि पदार्थनियमानपेक्षणे गामानयेतिविवक्षावान् अश्वपदमपि नित्तितयोपाददीत। न हि भवतामनपेक्षितपदार्थ एव वैयाकरणानामिव, वाक्यार्थप्रत्ययः। तदसौ यावानावापोद्वापपर्यालोचनया गोपदस्यार्थो निर्धार्यते, तावानेव सङघातकार्ये पि व्याप्रियमाणस्य तस्यार्थः ।।
* अन्यविषयः-वस्तुविषयः ।। + आवापोद्वापादिमूलंकशक्ति.ग्रहणासंभवादिति हेतुः ।।
1 निर्विबन्ध-ख.