________________
211
षष्ठमाह्निकम्
अहं त्वभिहितान्वयवादी। तेन__मम त्वनमहितत्वेऽपि नाभिधानं विरुध्यते ।। उच्यते
कष्टं' *मीमांसकेनापि भवता सूक्ष्मदर्शिना। नाद्यापि शब्दव्यापार परमार्थोऽवधारितः ।। प्रकाशकत्वं शब्दस्य व्यापारो हि निसर्गतः । पुंसस्तु गुणदोषाभ्यां तस्मिन् सदसदर्थता ।। क्रियाकारकसंसर्गबद्धिरत्रापि शब्दजा।
तादृश्येवायथार्था तु नरबुद्धिप्रमादतः ॥ तदुक्तं-प्रमाणान्तरदर्शनमत्र बाध्यते इति ||
अत एव प्रमाणत्वं शब्दे निष्प्रतिमं स्वतः । शब्दे कर्मणि तत्रापि बाधकानुपसर्पणात् ।। तेनाङगुल्यग्रवाक्येऽपि शाब्दोऽस्त्येव समन्वयः । आधाराधेयक्रियादिनिर्देभानस्यात्र प्रतीयमानत्वात ।। (?) वस्तुतोऽसंभवो यस्तु तुल्य एव स आवयोः । अयोग्यत्वेन संसर्गप्रतीत्यर्थनिबर्हणात् ।।
[अन्वितभानमेवौत्सर्गिकम् ] यदि तु शादोऽन्वयो न भवेत, कचतटपादिवर्णनिर्देशमात्रमिदं स्यात; दशदाडिमादिप्रलापतुल्यं वा स्यात् । अनन्विताभिधानात् वाक्यत्वमेव
* मीमांसकः-विचारकुशलः। 'मानेजिज्ञासायाम्' इति वार्तिकम् ॥ + अत्रापि-अंगुल्यग्रवाक्यादौ ॥ शब्दादर्थतीतिस्तु उभयोस्तुल्या। अन्यथाऽयोग्यत्वज्ञानं वा कथं भवेत् ॥
1 कथ-ख,
सुस्पष्टम-ख
प्रवादवत्र-ख.
.