SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 210 न्यायमञ्जरी न खल्वानय गां शुक्ला संसर्ग इति कथ्यते । व्यवहारे क्वचिवृद्धः, *पदं संसर्गवाचकम् ॥ प्रयुज्यमानमप्येतत् बालिशेन हि केनचित् । अनन्वितार्थमेव स्यात् दशदाडिमवाक्यवत् ॥ तस्मादन्वितानामेवाभिधानं युक्तम् ॥ [अनन्वितवाक्ये गतिप्रदर्शनम् ] आह___अडगुलयग्रादिवाक्येषु कथं तव समन्वयः ? उच्यते उक्तानामपि संसर्गे कथं तव समन्वयः ।। . . आह नन्वत्र योग्यताभावादसंसर्ग उपेयते । आकाङक्षादित्रयाधीनः संसर्गो हि मयेष्यते ।। उच्यते मयाऽपि योग्यासन्नादिसंसृष्टस्वार्थवाच्यता। पदानां दर्शिता सा च तेषु नास्तीत्यनन्वयः ।। आह-अन्विताभिधानवादी हि भवान् । ततश्च भवतोऽन भिधानं स्यादन्वयासंभवादिह ॥ * पदं प्रयुज्यमानमपि–इत्यन्वयः॥ + अनभिधानं वाक्यघटकपदानां प्रत्येकार्थबोधाभावः ।। 1 ना-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy