________________
मषष्ठाह्निकम्
209 पदान्तरसन्निधानेन क्रियत इति चेत् सर्वकारकेश्वपि तुल्योऽयमनुयोगः। संहत्य तु सर्वाणि कारकाणि कुर्वन्तीत्युच्यन्ते । तथा पदान्यपि अर्थाभिधानेनापि चोपकुर्वत्सु पदेषु नाभिहितान्वयः, अनन्वि'ते'ऽर्थे व्युत्पत्त्यभावात्। अनुपगमे वा दुरुपपादः पदार्थानामन्वयः, उपायाभावात् ॥
[अन्वयस्य आकांक्षाद्यधीनत्वासंभवः] . ननु आकांक्षासन्निधियोग्यत्वान्यभ्युपाय इत्युक्तम्-न युक्तमुक्तम् । कस्येयमाकाङक्षा? शब्दस्य, अर्थस्य, प्रमातुर्वा ? शब्दार्थयोस्तावदचेतनत्वात् नाकाङक्षायोगः। फलत इयं तु तत्र तत्र वाचोयुक्तिः 'शब्द: शब्दान्तरमाकांक्षति, अर्थोऽर्थान्तरम्' इति । प्रमातुः पुनः स्वतन्त्रस्वा कांक्षा न प्रमाणम् , पुरुषेच्छया वस्तुस्थितेरघटमानत्वात् । शब्दाख्यप्रमाण पृष्ठभावेन तु पुरुषस्याकाङक्षा भवन्ती भवत्यर्थानां संसर्गहेतुरित्येवं शब्दस्यायभियानिषोरिव दीदी? व्यपारः। उपरतव्यापारे तु शब्दे पुरुषाकाडक्षामात्रं न संबन्धकारणम् ।।
. अशाब्दत्वं च वाक्यार्थप्रतीतेरित्थ मापतेत् ।
व्यवधानमयुक्तं च साक्षाच्छाब्दत्वसंभवे ।। तस्मादन्विताभिधायोनि पदानीति स्थितम् ॥
[भन्विताभिधानवादसमर्थनम् ] एष एव हि संसर्गप्रतीतेः पन्थाः
व्यतिषक्तार्थबुद्धया हि व्यतिषङगोऽवगम्यते । अपरं तु न संसर्गप्रतीतेरस्ति कारणम् ॥
* इत्थं-शाब्दादनुपस्थितस्य शाब्दबोधविषयत्वे ।।
1 ता-ख,
'णं-ख,
क्तो-ग.
4