________________
208
न्यायमञ्जरी [अन्विताभिधानवादे दूषणोद्धारः] ___ यत्पुनरभ्यधायि-प्रतिवाक्यं व्युत्पत्तिरपेक्षणीया, अन्यथा नवकविश्लोकादर्थः पदार्थविदो न प्रतीयतेति-तदिदं व्युत्पत्त्यनभिज्ञस्य चोद्यम्न ह्येवं व्युत्पत्तिः ‘गोशब्दस्य शुक्लान्वितोऽर्थः' इति । स हि व्यभिचरति, कृष्णान्वितस्य दर्शनात् । नापि सर्वान्वितस्तदर्थः, आनन्त्येन दुरवगमात् । किन्त्वाकाडिक्षतयोग्यसन्निहितार्थानुरक्तोऽस्यार्थ इति ।।
एतां च व्युत्पत्ति वाक्यान्यावापोद्वा पाभ्यां र'चनावैचित्र्यभांजि संजनयन्ति। पदार्थपर्यन्तापि भवन्ती व्युत्पत्तिः ईदृशी दृश्यते, न शुद्धः पदार्थविषया, पदेन व्यवहाराभावादित्युक्तम् । तथापि न न ज्ञायतेइयान् पदस्यार्थ इति शकटाङगवदावापोद्वापाभ्यां तत्कार्यभेदस्य दर्शितत्वात् ।।
तदित्थं न प्रतिवाक्यं व्युत्पत्तिरपेक्ष्यते। सन्निहितयोग्याकाडिक्ष. तार्थोपरक्तस्वार्थाभिधायित्वेन हि क्वचिद्गृहीतसंबन्धः सर्वत्र गृहीतो भवति। ततश्च नवकविश्लोकादप्यर्थप्रतिपत्तिरुपपत्स्यते। पदपदार्थयोस्तु न व्युत्पत्तिः, उपायाभावादित्युक्तम् ॥
[अन्विताभिधानेऽपि पदान्तरसार्थक्यम् ] यदपि पदान्तरोच्चारणमफलमिति, तदपि परिहृतम्-पदान्तरसन्निधाने हि सर्वाणि पदानि कृत्स्नकारीणि भवन्तीत्युक्तत्वात् ।
* कार्यान्विते शक्तिः, इतरान्विते शक्तिः, अन्विते शक्तिः इति अन्विताभिधानवादे कक्ष्यायं वर्तते ॥
। अन्वयोपस्थापन इति शेषः ॥
1 पर-ख,
धेय-ख.