________________
206
न्यायमञ्जरी [वाक्यस्वरूपम् ] वाक्यं च किमुच्यते ? संहत्यार्थमभिदधन्ति पदानि वाक्यमिति वाक्यविदः। तत्रायं पदसमूह एवार्थो भवति। एवं न संहत्यार्थमभिदध्युः पदानि, यद्येकैकस्य पदस्य सर्वत्र व्यापारः। यथा दि बाह्यानि कारकाणि काष्ठादीनि सर्वाण्येव पाके व्याप्रियन्ते, यथा च शिबिकाया उद्यन्तारः सर्वे शिबिकामुद्यच्छन्ति, यथा त्रयोऽपि ग्रावाण *उखां बिभ्रति -तथा सर्वाण्येव पदानि वाक्यार्थमवबोधयन्ति। तदिदमन्विताभिधानम्। अन्यानन्वितनिष्कृष्टस्वार्थपर्यवसायित्वे हि सति न सर्वेषां वाक्यर्थे व्यापारस्स्यात् ||
[अन्विताभिधानवादे पदान्तरं न व्यर्थम् ] - ननु ! एवमे कैकस्य कृत्स्नकारित्वे सत्येकस्मादेव कृत्स्नसिद्धः पदान्तरोच्चारणं व्यर्थमित्युक्तम्-नैतत्-पदान्तरेण विनैव एकस्मात कृत्स्नकार्यसंपत्त्यभावात्। न तयकं कृत्स्नकारीति चेत्-मैवम् - एकैकस्य कृत्स्नफलपर्यन्तव्यापार पतितत्वात एकैकस्मिन् सति कृत्स्नफलपर्यन्तो व्यापारो निर्वर्तते, एकैकेन विना न निवर्तत इत्येवमेकैकं कृत्स्नकारि भवति ||
ननु ! एवं तहि समुदाय एव कर्ता भवतु, किं समुदायिभिः ? ततश्च तदेवायातं निरवयवौ वाक्यवाक्यार्थाविति–नैतद्युक्तम्-सङघातकार्यवत् स्वकार्यस्यापि दर्शनात् ॥
अर्थ किं सङघातकार्यम् ? किंच तत् स्व कार्यम् ?
'पिठरस्स्थाल्युखा' इस्यमरः॥
1 प-ख,
स्व-ख.