________________
205
षष्ठमाह्निकम् थो येनाकाङक्षितः, यश्च सन्निहितः, यश्च संबद्धं योग्यः, स तेन संबध्यते; नातोऽपरः ।।
। अन्वयशून्यवाक्यनिदर्शनम् ] अत एव 'अङगुल्यने हस्तियूथशतमास्ते' इति नास्ति संबन्धः, योग्यत्वाभावात् । अन्विताभिधानवादिनां तु 'अनन्वितस्यानभिधानात् तत्राप्यन्वयः प्राप्नोति। स च नास्ति। तस्मात् अभिहितानामेव पदार्थानामन्वय इति युक्तम् । तदुक्तं--पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि। अथेदानीमाः अवगता वाक्याथ संपादयन्ति' इति ॥ . .
[अन्विताभिधानवादिभिः अभिहितान्वयदूषणम् ] एवं प्राप्ते अभिधीयते-न व्युत्पत्ति निरपेक्षो दीप इव* शब्दोऽर्थमंवगमयति! व्युत्पत्तिश्च वृद्धव्यवहारात्। वृद्धानां च व्यवहारो वाक्येन, न पदेन; केवलपदस्याप्रयोगात्॥
अर्थप्रकरणप्राप्यपदार्थान्तरवेदने। पदं प्रयुज्यते यत्तत् वाक्यमेवोदितं भवेत् ॥ ___ वक्ता वाक्यं प्रयुङकते च संसृष्टार्थविवक्षया।
तथैव बुद्धयते श्रोता तथैव च तटस्थितः ।। - - सेयं वाक्यस्य वाक्यार्थे व्युत्पत्तिः ॥
* 'स्यरूपतस्सन्' इति शेषः ॥ + अर्थः-प्रयोजनम् ॥
1 -ख
पक्षे नि-के