________________
204
न्यायमञ्जरी [अन्विताभिधानेऽनुपपत्तिः] अतश्चैवम् , पदान्तरोच्चारणवैफल्यप्रसङगात् । एकस्मादेव पदात् तदुपरंजकद्वितीयपदार्थावगतिः सिद्धैव । तदपि पदमन्यानुरक्तस्वार्थवाचीत्यनेनैव न्यायेन एकमेव पदमखिलपदाभिधेयार्थवाचि संपन्नमिति तेनैव व्यवहारोऽस्तु ॥
न चासौ संपद्यते। गौरित्युक्ते सर्वगुणक्रियाऽवगमात् न ज्ञायते किमुपादीयतामिति। सर्वावगमो ह्यनवगमनिर्विशेष एव, व्यवहारानु- . पपत्तेः। न हि *रसविदां पूर्णोऽप्यब्धिः मेरोरतिरिच्यते, सलिलकार्या- . निर्वृत्तेः। नियतगुणक्रियानुरक्तस्वार्थप्रतिपादने तु गोशब्दस्य न हेतुमुत्प, श्यामः॥
[पदान्तरसन्निधानमात्रानान्वयभानम्] पदान्तरसन्निधानं नियमहेतुरिति चेत्, किं स्वरूपमात्रेण, अर्थ . प्रतिपादनेन वा?
म्वरूपमात्रेण जपमन्त्रपदानामिव सन्निधानं भवदपि असन्निधानान्न विशिष्यते, अनुहीतसंबन्धस्य तत्कृतोपकारादर्शनात् ।।
अर्थप्रतिपादनेन तु पदान्तरं यदि नियमहेतुः, सोऽयमभिहितानामर्थानामन्वय उक्तो भवति । तस्मात् स एव श्रोयान पदेभ्यः प्रतिपन्ना निष्कृष्टास्ता वदर्था आकांक्षासन्निधियोग्यत्ववशेन परस्परमभिसंबध्यन्ते ।
* 'सरसामस्मि सागरः' (गी. 10. 24) इत्यभिप्रायेणेदम् ॥
प्रथममर्थस्यामिधानात् ॥
1 यथाहुः न-
च
स्ता -ख