________________
षष्ठमाहिकम्
203 [ अन्वितमभिधाने विभक्तपदार्थज्ञानासंभवः ] । . आवापोद्वापाभ्यां तदवधारणमिति चेत् - मैवम् -- आवापोद्वापपरीक्षावसरेऽपि कदम्बप्रतीत्यनपायात्। न ह्येकमेव किंचिद्वाक्यमन्विता भिधायिपदनथितम् , *अन्यत्र तु शुद्ध एव पदानामर्थः ; किन्तु सर्वत्र कदम्बकरूपानुपायात् कदम्बकरूपमुपेयं प्रतीयत इति दुरवगमः पदार्थविभागः ॥
ततश्च पदार्थानामनपेक्षणे गामानयेति वाक्यात् अश्वानयननियोगः 'प्रतीयेत, गां बधानेति वाक्या दश्वबन्धननियोगः प्रतियेता। अपेक्ष्यते तु पदानामर्थः। सोऽपेक्ष्यमाणः इयानिति नियतोऽवधारयितव्यः । तदवधारणं शुद्धाभिधायिषु पदेष्ववकल्पते। तस्मात् 'पदपदार्थयोरौ. त्पत्तिकः संबन्ध इष्यते ॥
[ व्यवहाराच्छक्तिग्रहः पदविषयक एवं] वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः पदपर्यंन्ता भवति । इतरथा हि प्रतिवाक्यं व्युत्पत्तिरपेक्ष्येत। सा चानत्त्यात् दुरुपपादेति शब्दव्यवहारोच्छेदः स्यात्। दृश्यते च पदार्थविदामभिनवकविश्लोकादपि वाक्यार्थप्रतीतिः। सा पदतदर्थव्युत्पत्त्याऽवकल्पते। वाक्यवाक्यार्थ योस्तु व्युत्पत्तावपेक्षमाणायां सा न स्यादेव । तस्मान्नान्विताभिधानम् ॥
___* अन्यत्र-वाक्यावहिः।।
वाक्यघटकप्रत्येकपदार्थज्ञानानपेक्षणात् , प्रत्येकं पदशक्तिग्रहणा संभवाञ्च वाक्ये सर्वस्मात् पदात् सर्वोऽध्यर्थः प्रतीर येत ॥
* औत्पत्तिकः-सहजः॥
1 वाक्या-ख,
प-ख.