________________
202
न्यायमञ्जरी व्यवसायेन वा विषयीक्रियमाणास्तु यथावाता एव विषयीक्रियन्ते । संसर्गावगमस्तु कुतस्त्य इति चिन्त्यम्-उच्यते - अस्त्यत्र विवादः । केचिदाचक्षते अन्विता एव पदार्थाः पदैरभिधीयन्ते, अन्यथा पदानां वाक्यत्वायोगादिति ॥
अन्ये तु मन्यन्ते-शुद्धानामेव पदार्थानां पदैरभिधानम्। ते तु तथाऽभिहिताः सन्तः परस्परमाकाडक्षासन्निधियोग्यत्वपर्यालोचनया संसर्ग मधिगमयन्तीति ॥
[अन्विताभिधानाभिहितान्वयवादी] तत्रेदं विचार्यम्-व्युत्पत्तिबलीयसी, न हि शब्दो व्युत्पत्तिनिरप्रेक्षो ऽर्थमवगमयति'। व्युत्पत्तिश्च किं वाक्यस्य वाक्यार्थे, पदस्य वा पदार्थ इति ॥
*यदि वाक्यस्य वाक्यार्थे व्युत्पत्तिः, तदाऽन्विताभिधानम् । पदस्य पदार्थे व्युत्पत्तौ अभिहितान्वय इति ||
[अभिहितान्वयवादवर्णनम् ] . कि तावत्प्राप्तम् ? अभिहितान्वय इति, पदार्थप्रतिपत्तिपूर्वकत्वाद्वाक्यार्थप्रतिपत्तेः। न नवगतपदार्थस्य वाक्यार्थसंप्रत्ययो दृश्यते, पदार्थविभागश्च गम्यते-अस्य पदस्य जातिरर्थः, अस्य द्रव्यं, अस्य गुणः, अस्य क्रियेति । स चैवमवकल्पते, यदि तावत् सोऽर्थः पदैरभिधीयते । पदान्तौरार्थोपरक्त तु-तस्मिन्नभिधीयमाने तदर्थेयत्तैव नावधार्यते, कदम्बा कारार्थप्रतीतेः ॥
__ * वाक्यघटकसर्वपदानां युगपदन्वितत्वेनैव अभिधाने अन्विताभिधानम् । पदैरर्थाभिधानाननन्तरं अन्वयभाने अन्विताभिधानम् ॥
1 र्थमवगमयति व्युत्पत्तिमन्तरेण-ख