________________
· षष्ठमाह्निकम्
201 तदुपारूढानि पदानि वाक्यं, तदुपारूढश्च पदार्थो वाक्यार्थः। तथा विधश्च मानसोऽनुव्यवसायः सकललोकसाक्षिकत्वादप्रत्याख्येयः॥
[अन्तिमतावरूपदार्थस्मरणस्यावश्यकता] ननु ! अन्त्यपदार्थज्ञानानन्तरं किं पूर्वपदतदर्थविषयेन स्मरणेन, अनुव्यवसायेन वा। अन्त्यपदार्यश्चेत ज्ञातः, समाप्तं कर्तव्यं, किमन्यदवशिष्टं, यत् व्यवसायेन, स्मरणेन, 'अनुव्यवसायेन वा करिष्यते-कथं न करिष्यते *एकाकारो हि वाक्यवाक्यार्थप्रत्ययः प्रत्यात्मवेदनीयो न शक्यतेऽपहनोतुम। न चासौ स्मरणादनव्यवसायाद्वा विना संपद्यत इत्यस्ति तदुपयोगः। इत्थं स्मरणारूढं संकलनाज्ञानविषयीकृतं चेदं पदनिकुरुम्बं वाक्यं, तथाविधश्चैष वाक्यार्थः ॥
[संसर्गभासकसामग्रीप्रदर्शनम् ] . ननु! मा भूत् पदस्फोटः वाक्यस्फोटश्च वाचकः ।
मा च भूतामिमौ वाक्यवाक्याथी भागवजितौ ॥ 'वर्णा एव भवन्त्वेते वाचकाः केनचिद्वथा । पदं वर्णसमूहोऽस्तू वाक्यं च पदसंहतिः ॥ भवन्तु भवदाख्याताः पदवाक्यादिकल्पनाः।
पदार्थानां तु संसर्ग मार्गः क इति कथ्यताम् ॥ . असंसृष्टा हि 'गौरश्वः पुरुषो हस्ती' इति पदार्थाः न वाक्यार्थभावमधिरोहन्ति। अन्त्यपदार्थज्ञानानन्तरभाविनां हि स्मरणेन, अनु
* तावद्वर्णविषयक श्रौत्रात्यक्षभिव, तजन्यमिव च ज्ञानम् ॥ । प्रत्तेके अबोधका अपीत्यर्थः ॥
वा-ख,
भवन्तु-ख.