________________
200
न्यायमञ्जरी प्रतिषिद्धं, न संस्कारज्ञानयोः। ततः पदार्थज्ञानम् । तेनापि संस्कारः । पुनर्वर्णक्रमेण द्वितीयपदज्ञानम्। ततः सङकेतस्मरणम् । पूर्वसंस्कारसहितेन च तेन पटुतरः संस्कारः। पुनः पूर्ववर्णक्रनेण तृतीयपदज्ञानं, संकेतस्मरणं, पूर्वसंस्कारापेक्षः पदुतरः संस्कार इत्येवं पदज्ञानजनिते पोवरे संस्कारे, पदार्थज्ञाननिते च तादृशि संस्कारे स्थिते अन्त्यपदार्थज्ञानानन्तरं पदसंस्कारात् 'सर्वपदविषयस्मतिः, पदार्थसंस्काराच्च पदार्थविषया स्मृतिरिति संस्कारत्रयात् क्रमेण द्वे स्मृती भवतः । तत्रैकस्या स्मृतावुपारूढः पदसमूहो वाक्यं, इतरस्यामुपारूढः पदार्थसमूहो वाक्यार्थः ॥
[ शाब्दबोधस्य स्मृतिमूलकत्वेऽपि नाप्रामण्यम् ] ननु! स्मृतेरप्रमाणत्वात् अप्रमाणत्वमिदानी वाक्यार्थप्रतीतैःमैवम्-*तथासंबन्धग्रहात्। यत्र ह्यन्यथासंबन्धग्रहणं, अन्यथा च प्रति. पत्तिः, तत्रायं दोषः। यथा धूमे गृहीतसंबन्धे नीहारादहनानुमितौ । इह तु क्रमवतिनां वर्णानां अन्यथा प्रतिपत्त्य संभवात् , यथैव व्युत्पत्तिः तथैव प्रतीतिरिति न किंचिदवद्यम्। अचिरनिर्वृत्तानुभवसमनन्तर भाविनी च स्मृतिरनुभवायते ॥
[पदार्थज्ञानं मानसरूपं वा] . , अथवा कृतं स्मरणकल्पनया। अन्त्यपदार्थज्ञानानन्तरं सकलपद. पदार्थविषयो मानसोऽनुव्यवसायः शतादिप्रत्ययस्थानीयो भविष्यति ।
* स्मृतेः अप्रमात्वं न तदभाववति तत्प्रकारकत्वरूपम् ॥ किन्तु प्रमावाभावमात्ररूपम्। तच्च प्रमालक्षणे अनुभवत्वनिवेशप्रयुक्तम् । अतश्न यथा संबन्धः, तथा ग्रहान्न शाब्दबोधस्याप्रामाण्यम् ॥
तेन तावद्वर्णश्रवणपूर्वक इव बोधः भवति ॥
1 पू-च,
त्मया-ख.