________________
199
षष्ठमाह्निकम् निवेद्यताम्-उच्यते-न वयमात्मीयामभिनवां कामपि कल्पनामुत्पादयितुं क्षमाः ॥
न हीयं कविभिः पूर्वः अदृष्टा सूक्ष्मदशिभिः । शक्ता तृणमपि द्रष्टुं मतिर्मम तपस्विनी ॥
कस्तहि विद्वन्मतितर्कणीयग्र
न्थोपबन्धे तव दोहदोऽयम् । न दोहदः, पर्यनुयोगभूमिः,
परोपदेशाच्च न तस्य शान्तिः॥ राज्ञा तु गह्वरेऽस्मिन् अशब्दके बन्धने विनिहितोऽहम् । गन्थरचनाविनोदात् इह हि मया वासरा गमिताः॥
.. [स्वमते वर्णभ्य; वाक्यार्थबोधवर्णनम् ] तथापि वक्तव्यं कथं वर्णेभ्यो वाक्यार्थप्रतीतिरिति । उच्यतेचिरातिक्रान्तत्वं अचिरातिक्रान्तत्वं वा न स्मृतिकारणम्। संस्कारकरणकं हि स्मरणं भवति। तच्च सद्यः प्रलीने चिर प्रलीने वा न विशिष्यते इत्येवं पूर्वेषां पदानां चिरतिरोहिलानामपि, व्यवहितोच्चारितानामपि संस्कारात् स्मरणं भविष्यति । अन्त्यपदस्य चानुभूयमानत्वोपगमे ज्ञानयोगपद्यादिप्रमादप्रसङग इति वरमन्त्यपदमपि स्मर्यमाणमस्तु । स्मृत्यारूढान्येव सर्वपदानि वाक्यार्थमवगमयिष्यन्ति ।।
[वाक्यार्थबोधक्रमः] तत्र चेयं कल्पना -- वर्णक्रमेण तावत् प्रथमपदज्ञानम्। ततः सङकेतस्मरणं, संस्कारश्च युगपद्भवतः। ज्ञानयोहि यौगपद्यं शास्त्रे
* कश्मीरे अरण्ये राज्ञा शङ्करवर्मणा चिरमसौ निक्षिप्त इति वार्तेति चक्रधरः॥
1 च-ख.
विरल-घ.