________________
198
[ व्यवहितपदोच्चारणेऽपि शाब्दबोधः ]
अपिच व्यवहितोच्चरितेभ्योऽपि पदेभ्यः वाक्यार्थप्रत्ययः दृश्यते । यत्रानेककार्यपर्यालोचनाव्यग्र हृदयः स्वामी 'रे कन्दलक !' इत्युक्त्वा, कार्यान्तरं संविधाय, 'तुर' गं' इति वदति । पुनः प्रयोजनान्तराय व्यवहृत्य, 'कल्पितपर्याणं' इत्यादि रक्ति । पुनरन्यत् किमपि कृत्वा ब्रवीति 'आन' इति । तत्र 'रे कन्दलक ! कल्पितपर्याणं तुरगमानय' इति वाक्यार्थावगमो भवति । भवन्मते चासौ दुरुपपादः । पदानुरागस्य तत्रासंभवात् * | " पूर्व पदस्मरणस्य चानभ्युपगमात् ।
11
न्यायमञ्जरी
[ शङ्करस्वामिपक्षः ]
किंचन प्रवरमतानुसारिणामिव भवतां विशेष्यबुद्धिषु विशेषणंविशेष्ये द्वे वस्तुनी आलम्बनम्, अपि तु विशेष्यमात्रम्, उपायभेदादेव प्रतीत्यतिशय इति । ततश्च सत्यपि पूर्वपदानुरागे तत्प्रतिभासाभावात् शुद्धमेव द्वितीयपदज्ञानं संपन्नमिति किं तदनुरागेण ? अंतश्चेयमनुपपन्ना कल्पना, यतो द्वितीयपदस्य स्वार्थे शुद्धस्यैव सङकेतग्रहणं वृत्तम् । यदा क्वचित् प्रथमं प्रयुक्तमासीत्, अधुना तु तत्पदं पदान्तरोपरक्तं संजातमिति तादृशस्य गृहीत संबन्धत्वादर्थप्रतिपत्तिहेतुवं न स्यादित्यास्तामपूर्वमिदं शङकरस्वामिनः पाण्डित्यम् ॥
[ स्वमतेन वाक्यार्थबोधोपवर्णनम् ]
आह – यदीमाः सर्वा एव सदोषाः तान्त्रिकरचिताः कल्पनाः न साधीयस्यश्चेत्, [तदाssत्मीया का चन निर्दोषा साध्वी कल्पना
* अत्यन्तव्यवहितत्वादेव ॥
+ न तु विषयाधिक्यात् ॥
ॐ अयं न्यायभाष्य टीकाकार इति चक्रधरः ॥
2 सर्व - ख.
1 ग-ख.