SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 197 षष्ठमाहिकम् [ उक्तपक्षनिराकरणम् ] : इयमपि न निरवद्या कल्पनेत्यपरे—प्रथमपदोपरागपूर्वकद्वितीयपद'ज्ञानोपजननानुपपत्तेः। प्रथमपदज्ञानानन्तरं हि संबन्धस्मरणम् । तेनैव तस्य विनश्यत्ता। पदार्थप्रतिपत्तिकाले च पदज्ञानं विनष्टमेव। विनश्यदवस्था बुद्धिः बुद्धयन्तरविरोधिनीति सामान्येन श्रवणात् ॥ [ज्ञानविशेषयोयौंगपद्यसंभवपक्षः] . ब्रूयात्-कार्यभूतया बुद्धया कारणभूतबुद्धिः विरुद्धचेत, न बुद्धिमात्रेण* बुद्धिमात्रमिति–एतदयुक्तम्-विशेष प्रमाणाभावात ॥ __ अभ्युपगम्यापि ब्रूमः-विशेषे प्रमाणभूतयोरेव बुद्धयोर्भवतु वध्यविधातभावः। तथापि पदज्ञानं संकार इव समयस्मृतेः कारणमेव, संस्कारेणेव तेनापि विना तदनुत्पादात। संस्कारप्रबोधे तस्य व्यापार इति चेत् तेनापि द्वारेण यत् कारणं, तत् कारणमेव । तदिह पदज्ञानं समयस्मरणं, पदार्थज्ञानमिति त्रीणि ज्ञानानि युगपदवतिष्ठन्त इति परः प्रामदः॥ [ एतत्पक्षेऽपि ज्ञानयोगपद्यं दुरिम् ] अपि च पदज्ञानमुपजायमानं वर्णक्रमेण जायते, न सहसैव; निरंशपदवादस्य व्युदस्तत्वात्। तत्र च द्वित्राणि, त्रिचतुराणि, पंचषाणि वाक्षराणि क्रमेण ग्रहीष्यन्ते। तद्विषया हि क्रममाविन्यः उपजननापायमिका बुद्धयः । अत्रान्तरे विनश्यदवस्थ'माद्यपदज्ञानमासिष्यते, तदुपरागेण द्वितीयपदज्ञान मुत्पत्स्य त इति दुराशैवेयम् ॥ * अदृष्टविशेषोद्भूतसंस्काराधीनस्मरणेन साकम् ॥ + समयस्मृतेरेव-इत्यन्वयः। समयः-संकेतः ॥ 1 मन्त्यप-ख, मुपपद्य-क मुपपत्स्य-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy