________________
196
न्यायमञ्जरी अथ तदन्त्यपदं अर्थ इव आत्मन्यपि तदवच्छेदकत्वप्रतिपत्तेः करणत्वं प्रतिपत्स्यत इति मन्यसे—तदयुक्तम् – स्वप्रतीतौ तस्य कर्मत्वात् । न चैकस्यामेव क्रियायां तदेव कर्म करणं च भवितुमर्हति । विस्तरतश्चायं वाचकावच्छिन्नवाच्यप्रतिभासः प्रत्यक्ष लक्षणे प्रतिक्षिप्त इति अलं पुनस्तद्विमर्दैन ।
[वाक्यार्थबोधप्रकारे पक्षान्तरम् ] ___ अपर आह-प्रथमं पदज्ञानम्। ततः सङकेतस्मरणम् । तत: पदार्थज्ञानम्। पदार्थज्ञानात् पदज्ञानस्य विनश्यत्ता। विनश्यदवस्थपदज्ञानमपेक्षमाणं श्रोत्रं प्रथमपदावच्छेदेन द्वितीयपदे ज्ञानमादधाति । द्वितीयपदज्ञानानन्तरं पुनः संबन्धस्मरणम्। ततः पदार्थज्ञानम्। तेन द्वितीयपदज्ञानस्य विनश्यत्ता। विनश्यदवस्थपदज्ञानसहायात् श्रोत्रात तथैव तदवच्छेदेनोत्तरोत्तरपदज्ञानं तावत् यावदन्त्यपदज्ञानमिति ।।
तदज्ञानानन्तरं च प्राक्तनप्रक्रियावत् नात्र पूर्वपदस्मरणमुपयुज्यते । तत्फलस्य च विनाशदशापतितपदज्ञानकृतावच्छेदमहिम्नैव सिद्धत्वात् । तस्य हि फलमन्त्यपदावगमसमये सकलपूर्वपदोपस्थापनम्। तच्च विनश्यदवस्थपूर्वपूर्वपदज्ञानकृतोत्तरोत्तरपदानुराग*बलादेव लब्धमिति किं तत्स्मरणेन ? तदभावाच्च नात्र ज्ञानयोगपद्यादिचोद्यावसरः समस्ति। यथोपदर्शितान्त्यपदज्ञानमेव च वाक्यार्थज्ञानमिति न तस्य चरितार्थत्वमन्यत्र. इत्येवं वाक्यादेव वाक्यार्थप्रत्ययः सेत्स्यति, न पदार्थेभ्य इति ॥ ..
-
* अनुरागः-अनुरंजनम्। तावत्पदार्थविषयकविशष्टशाब्दबोधप्रयोजकसंस्कार विशेषः ॥
न चरितार्थत्वं-अन्त्यपदत्वादेव ॥
1 आ-ख,
णग्रहण-क.