________________
षष्ठमाह्निकम्
195 पदज्ञानमुत्पद्यते। ततः सङकेतस्मरणम् । तेन विनश्यदवस्थेन पदज्ञानेन स्वविषयावच्छेदेन पदार्थज्ञानमाधीयते, यत्र वाचकावच्छिन्नं वाच्यस्वरूप. मवभासते। तथाविधपदार्थज्ञानान संस्कारः। ततः तथैव क्रमेण द्वितीयपदज्ञानम्। तदनु समयस्मरणम्। तेन विनश्यदवस्थेन च द्वितीयपदज्ञानेन तथैव स्वावच्छेदेन स्वार्थज्ञानम्। तेन प्रथमपदार्थज्ञानाहितेन च संस्कारेण दृढतरः संस्कारः। पुनर्वर्णक्रमेण तृतीयपदक्रमेण ततीयपदज्ञानम्। पुनः सङकेतस्मरणम् । सङकेतस्मृतिसहायेन तेन विनश्यदव स्थेन स्वार्थे तथैव स्वावच्छिन्नं ज्ञानम्। तेन प्राच्येन च संस्कारेण दृढतरः संस्कारः । एवं तावत् यावदन्त्यपदज्ञानात् स्वावच्छिन्नार्थप्रतीतिः। ततः पूर्वोप्तचितात् महतः संस्कारात् विशिष्टसर्वविषयमेकं स्मरणम् , यस्य स्वाभिधानावच्छिन्नाः सर्वे पूर्वपदार्था विषयतां प्रतिपद्यन्ते। तस्मिन स्मरणे तथान्त्यपदार्थज्ञानेऽवच्छेदकत्वेन प्रस्फुरत्पदसमूहो वाक्यम् , अवच्छेद्यत्वेन प्रकाशमानोऽर्थसमूहो वाक्यार्थः। एवं स्मर्यमाणानुभूयमानौ पदपदार्थसमूहों वाक्यवाक्यार्थावुक्तौ भवतः ॥
- [पक्षान्तरनिराकरणम् ] . एतदपि न विचारक्षमम्-अन्त्यपदार्थप्रतीतिसम तदवच्छेदकतया प्रतिभासमानं पदं तत्प्रतीतौ तावत् कारणमिति नात्र विमतिः । स्वयं च प्रतिभासमानत्वात् कर्मापि भवत्येव । तस्येदानी कर्मत्वे करणं चिन्त्यम। न श्रोत्रं तावत् करणम्, अन्त्यपदप्रतीत्यनन्तरमेव तव्यापारस्य विरतत्वात् । विरम्य च पुनर्व्याप्रियमाणत्वानुपपत्तेः। मनस्तु बाह्ये विषये स्वातन्त्र्येण प्रवर्तितुमसमर्थम्। तत्प्रवृत्तौ सर्वाण्येव प्रथमपदात्प्रभृति पदानि मानसव्यवसायगो'चराणि भवन्तु; किं स्मर्यमाणत्वमन्येषामुच्यते ?*
___ * मध्ये पदस्मरणं मा स्तु। मनसैव तावद्विषयकं ज्ञान भवतु ॥
1
1 चरचारीणि-ख,
-
-
व
-
ख.