SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 194 ... न्यायमञ्जरी रहितं वाक्यं स्यात् । अन्त्यपदज्ञानस्य हि सङकेतस्मृतिवेलायां विनश्यत्ता) पदार्थज्ञानवेलायां विनाश एव यतः ॥ [असंवेद्यमानशब्दसत्ताऽसंभवः ] "ब्रूयात्-असंवेद्यमानमपि तदानीमन्त्यपदमस्त्येवेति-स्वस्ति तहि न्यायविस्तराय* ॥ अपिच तदानीमनुपलभ्यमानेनापि सता किमन्त्यपदेन क्रियते ? पुनरवगमोऽस्य भविष्यतीति चेत् ; स कुतस्त्यः ? श्रोत्रस्य विरम्य व्या. पारासंवेदनात्। मनसश्च स्वातन्त्र्ये ग बाह्ये विषये सामर्थ्यासंभवात् । सत्यपि पुनस्तदवगमे ज्ञानयोगपद्यानपायात् ॥ अपिच पूर्वपदैः अर्थशून्यतया शुष्कनीरसतनुभिः अन्त्यपदानुभव . समनन्तरं स्मृतैरपि को गुगः ? न हि तथाविधपदस्मरण मर्यप्रत्याय. नाङगम् ॥ ___ अथ सार्थकानि प्रांचि पदानि स्मर्यन्ते, तहि सम स्मरणपदार्थज्ञानादिकार्यसाङकर्यकृतं अनेकशाख प्रतिपदं ज्ञानयोगपद्य नापद्यत इत्यसतीयं कल्पना। [वर्णानां पदवाक्यभावे पक्षान्तरम् ] . व्याख्यातारस्तु प्रक्रियान्तरमाचचक्षुः-वर्णानुगमरूपेण तावत् प्रथम * मीमांसकानां, शब्दविवर्तवादिनां च स सिद्धान्तः । तदङ्गीक्रियते चेत् न्यायशास्त्रस्य वैफल्यमिति नर्मोक्तिः॥ * पदार्थज्ञानाभावादिति हेतुः। मध्ये पदार्थज्ञानाङ्गीकारे तु ज्ञानयोगपद्यम् ॥ *प्रतिपदं-एकैकपदश्रवणवेलायाम् । प्रतिक्षणं वा ॥ · 1 अवि-च, ब्र-क.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy