________________
193
पठमाह्निकम् वाक्यार्थप्रतिपत्तिः। संस्कारस्य च संस्कारान्तरकरणकौशलमवश्यमेषि तव्यम् । अन्यथा सर्वत्र क्रियाभ्यासोऽनर्थकः स्यादिति ।।
[वर्णानां पदवाक्यरूपतापत्तिनिराकरणपक्षः] अत्र वदन्ति–नेयं प्रक्रिया साध्वी, ज्ञानयोगपद्यप्रसङगात्। तथा, हि-चरमपदप्रतिभासानन्तरं यथा पूर्वपदस्मरणं, तथा तदैव संकेतस्मरणेनापि भवितव्यम्। अनवगतपदार्थसंबन्धस्य हि न वाक्यार्थप्रतीतिः। अस्मृतसंकेतस्य च न पदार्थप्रतीतिः। यत्राप्यभ्यस्ते विषये संकेतस्मृतिर्न संवेद्यते, तत्राप्यविनाभावस्मतिरेव बलादसौ कल्प्यते, अनवगतपदपदार्थसंबन्धस्य नारिकेलद्वीपवासिन इवार्थप्रत्ययाभावात्। संबन्धानुभवस्य च पूर्ववृत्तत्वेनेदानों स्मरणमुखेनौपकारित्वात्। तस्मादन्त्यपदज्ञानानन्तरं पूर्वपदसमयस्मिरणयोः युगपदुत्पादात् ज्ञानयोगपद्यम् ॥
- [पदैः वाक्यज्ञाने ज्ञानयोगपद्यं दुर्वारम् ] अथ समयस्मरणानन्तरं पूर्वपदस्मरणमुपेयते-तथापि तत्स्मृतिकाले पदार्थज्ञानोपजननात् पुनरपि ज्ञानयोगपद्यन् । न च तदा पदार्थज्ञानं नोदेतीति शक्यते वक्तुम् , अविकलतदुपजननकारगई सामग्रीसन्निधानात् , प्रतिनायकस्य च तदानीमभावात् । पदार्यज्ञानोत्तरकालं तहि पूर्वपदस्मरणमस्त्विति चेत् ; एवं तर्हि चरमपदज्ञानप्रत्यस्तमयात् अन्त्यपद
* वेदग्रहणादौ, लङ्घनाभ्यासादौ वा॥ ___ * समयः-शक्तिः ॥
+ शक्ति ज्ञानादिरूपसामग्यां सत्यां, पदे श्रुतेऽपि पदार्थस्मृतिर्न भवतीति कथ' ज्यते?
1 स्य-ख,
था-ख.