________________
192
न्यायमञ्जरी तस्मात् वर्णेभ्य एव कयाचित्कल्पनया पदवाक्यभावमुपगतेभ्यः पदार्थवाक्यार्थप्रत्यय' इति युक्तम्। तस्मात् पदार्थजन्या न भवति* वाक्यार्थबुद्धिरिति सिद्ध म्। अनुपरतव्यापारात् वाक्यादेवेयमुद्भवति ||
[वर्णानां पदभावोपगमप्रकारनिरूपणम् ] आह-कया पुन: कल्पनाया पदवाक्यभावमुपगता वर्णाः पदार्थ. वाक्यार्थप्रतीतिमादध्युरिति ॥
तत्र आचार्यास्तावदिमां कल्पनामदीदृशन् । प्रथमं वर्णज्ञानं, ततः . स्कारः। ततो द्वितीयवर्णज्ञानं, तेनप्रथमवर्णज्ञानजनितेन च संस्कारेण पटुतरसंस्कारः। ततः तृतीयवर्णज्ञानं, तेन प्राक्तनेन संस्कारेण पटुतरः संस्कारः। एवं यावदन्त्यवर्णज्ञानम्। ,अन्त्यवर्गज्ञानानन्तरं तु ततः संस्कारात् सकलपूर्ववर्णविषयमेकस्मरणम् । तेनान्त्यवर्णज्ञानस्य विनश्यत्ता। विनश्यदवस्थग्रहणस्मरणविषयोकृतो वर्णसंमूह : पदमिति ज्ञायते ॥
[ वाक्यभावप्रदर्शनम् ] . . ततः पदज्ञानात् संस्कारः। ततः तथैव वर्णक्रमेण द्वितीयपदज्ञानम्। तेन प्रथमपदज्ञानजन्मना च संस्कारेण पटुतरसंस्कारो जन्यते । पुनस्तेनैव क्रमेण तृतीयपदज्ञानम्। तेन प्राक्तनेन च संस्कारेण पोवरतरः संस्कारः जन्यते। एवं यावदन्त्यपदज्ञानं अन्तरेण स्थवीयसा संस्कारेण सर्वपदविषयमेकस्मरणमुपजन्यते। संस्कारस्यैवैकत्वात् सोऽयं स्मरणानुभवविषयीकृतवर्णसमूह एव पदम्। पदसमूहो वाक्यमित्युच्यते। ततो
* किन्तु पदजन्यैव ॥
1 ई-ग,
' युक्त-ख.