________________
षष्ठमाह्निकम्
191 'सामान्यान्यन्यथासिद्धेः विशेष गमयन्ति हि' - इति न्यायात्। अर्थापत्तिरिति चेत् , किमिदानीमापत्तिगम्यो *धर्मः? न चैतद्युक्तं, इष्टं वा। तदिदं सप्तमी प्रमाणमवतरति 'पारायं नाम । एतच्चापि' नेष्टम् । अतो न पदार्थनिमित्तकः वाक्यार्थप्रत्ययः ॥
[शाब्दबोधस्य शब्दजन्यस्योपपत्तिः] . यदप्युक्तं-अन्वयव्यतिरेकाभ्यां पदार्थनिमित्तकत्वं वाक्यार्थस्यावगम्यत इति-तत्र पदार्थसंसर्गस्वभावत्वाद्वाक्यार्थस्य सत्यं तत्पूर्वकत्वमिष्यत एव वाक्यप्रतिपत्तेः, न तु तज्जन्यत्वं, शब्दव्यापारानुपरमात् । मानसे चापचारे सति पदानामपि ग्रहणं नास्त्येव, यतः क्षणान्तरे 'समाहितचेताः स वक्ति 'नाहमेतदोषम् , अन्यत्र मे मनोऽभूत्, पुनर्बंहि' इति। इतरथा हि पदानि स्मृत्वा तदर्थमेवावगच्छेत , न पुनः पृच्छेत् । तस्मात् पदानां ग्रहणमेव तत्र वाक्यार्थावगमे निमित्तम् ॥
[प्रमाणान्तरोपस्थितस्य न शाब्दबोधविषयत्वम् ] . यदपि- पश्यतः श्वेत मारूप' इति तदपि न किचित्। कि प्रत्यक्षेण शक्लो गौः गच्छत् दृश्यते । न शक्लो गौः गच्छतीति वाक्यस्याओं न भवति। प्रत्यक्षप्रतिभासात्तु प्रत्यक्षार्थ एवासौ न वाक्यार्य इत्युच्यते । एवं 'श्वेतोऽश्वो धावति' इत्यानमानिकोऽयं प्रत्ययः पर्वतेऽग्निरितिवत् । वाक्यश्रवणात्तु विना न वाक्यार्थो भवितुमर्हतीत्यलं प्रसङगेन ॥
* धर्मे शब्द एव प्रमाणमिति मीसांसकाः ।।
* प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धय इति प्रमाणषट्कवादिनो हि भाहाः॥
* अपचारः-अनवधानादिः ॥
पदार्थां नामेति तच्च-ख,
दार्थां-ख,
ति-ख.