________________
190
न्यायमञ्जरी दिवत् प्रमेयात् पदार्थात् अग्नेरिव वाक्यार्थस्यावगमो नास्ति । न हि पदार्थाः प्रमेयोभूय धूमवत् पुनः प्रमाणीभवितुमर्हन्ति । किन्तु पदान्येव तत्प्रतिपादनद्वारेण वाक्यार्थप्रतिपत्तौ पर्यवस्यन्ति । कथमात्मीयमेव ग्रन्यं नावबुध्यन्ते भवन्तः ! (श्लो-वा-वाक्य-340)
'वाक्यार्थप्रत्यये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्' इति ॥ अवान्तरव्यापारो हि न कारकस्य प्रधाने व्यापारे कारकतां व्याहन्ति। पदानां हि द्वयी शक्तिः, अभिधात्री तात्पर्यशक्तिश्च । तत्र अभिधात्री शक्तिरेषां पदार्थेषूपयुक्ता। तात्पर्यशक्तिश्च वाक्यार्थे पर्यवस्यतीति ॥
[तात्पर्यवृत्त्या व्यक्तिबोधः] 'भाष्यकारोऽपि 'पदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि' इति वदन् अभिधाव्यापार एव शक्तेः विरतिमाह, न तात्पर्यशक्तेः। अभिधाय निवृत्तव्यापाराणि' पदानि यदर्थपराणि, तत्रानिवृत्तव्यापाराण्येव । एवं हि शाब्दता वाक्यार्थप्रत्ययस्य न हास्यते। सर्वात्मना तु विरत. व्यापारे शब्दे, साऽवश्य हीयते । शब्दावगतिमूलत्वात्तु शाब्दत्वे श्रौत्रत्वमपि स्यात् , श्रोत्रस्य पारंपर्येण तन्मूलत्वात्। शब्दे च विरतव्यापारे कतमत् तत्प्रमाणम् , यस्य वाक्यार्थप्रतीतिः फल मिति न विद्मः ॥ .
न प्रत्यक्षम् , अतीन्द्रियत्वाद्वाक्यार्थस्य। नानुमानम् , 'न चानुमानमेषा धीः' (श्लो-वा-1-1-1-नो-232) इत्यादिना ग्रन्थविस्तरेण स्वयमेव निरस्तत्वात् । न शब्दः, निवृत्तव्यापारत्वात् ।।
* तदा हि शाब्दबोधस्यानुमितित्वं स्यात् ॥ । तेषां-पदानाम् ॥
1 वाच्यम-क, यद्य-ख,
णि-ख,
पदा-क.