________________
षष्ठमाह्निकम्
189 एष पन्थाः। एकोऽप्यतीन्द्रियः संस्कारः कार्यात् कल्प्यते ; बहवोऽपि तत एव कल्पयिष्यन्ते, कार्यस्य भिन्नत्वात् ।। - यदपि चिरतिरोहितवर्णप्रबन्धानुसन्धान दुर्घटमिति कथितं तदपि न चारु-कयाचित्कल्पनया वर्णानामिव पदबुद्धौ, पदानामपि वाक्यबुद्धावुपारोहसंभवात्। एतच्चानन्तरं दर्शयिष्यते ।। ____ यदपि विकल्पितं- युगपद्वा क्रमेण वा वर्णाः पदवाक्यार्थप्रत्यये व्याप्रियेरन् ? इति-तत्राप्युच्यते-योगपद्यं तावदनभ्युपगमादेव प्रत्युक्तम्। क्रमोऽप्येषामीदृशः – यत् प्रथमं पदार्थमवगमयन्ति, ततो वाक्यार्थम्। सोऽयं तहि पदार्थपूर्वक एव वाक्यार्थ उक्तो भवतीति चेत् -- मैवम् -- पदार्थो हि नाम प्रमेयमेव । न ते प्रमाणवर्ग निपतन्ति । न च पदार्थवाक्यार्थयोरत्यन्तं भेदः, येन तयोः धूमाग्न्योरिव संबन्धग्रहणसापेक्षयोः तदनपेक्षयोर्वा रूपदीपयोरिव प्रत्याय्यप्रत्यायकभावः। न हि स्वशरीर एव गम्यगमकवाचोयुक्तिः प्रवर्तते। कथं भवान्' स्वभावहेतुवादिनो · बौद्धस्य शिष्य इव निर्वृत्तः ।।
.. [पदैः व्यक्तिबोधनप्रकारः ] ननु ! सामान्ये हि पदं वर्तते, विशेषे च वाक्यम् । अन्यच्च सामान्यम् , अन्ये च विशेषाः। यदुक्तं
'सामा न्यान्यन्यथासिद्धेः विशेषं गमयन्ति हि' इति व्यतिरेक एवं प्रत्याय्यप्रत्यायकयोः-उच्यते-बाढम् ? अस्त्ययमियान् व्यतिरेकः। किन्तु विरतव्यापारे चक्षुषीव शब्दे, धूमा
* कार्य प्रति विशेषा एव कारणम् , न सामान्यम्। दण्डत्वादिकं हि घटादीन् प्रत्यन्यथासिद्धम् ॥
३ स्वभावात्-खा