________________
188
न्यायमञ्जरी - [वाक्यैरेव वाक्यार्थबोधपक्षः] अत्राप्यभिधीयते-न पदार्थेभ्यो वाक्यार्थावगतिः, अपि तु वाक्यादेव। तथा चाय वाक्यार्थ इति प्रसिद्धिः, न पदार्थार्थ इति। यथा हि काल्पनिकवर्णसमूहात्मकं पदं पदार्थप्रतिपत्तिमादधाति, तथा काल्पनिकपदसमूहात्मकं वाक्यं वाक्यार्थप्रतिपत्तिमाधास्यति ।।
. ननु ! पदसमूहात्मकं वाक्यमन्यन्नास्ति, किन्तु पदान्येव वाक्यम् । पदानां च स्वार्थे चरितार्थत्वात् न वाक्यार्थसामर्थ्यमित्युक्तम्-नैतद्युक्तम् --पदार्थानामपि चरितार्थत्वात्। क्व तेषां चरितार्थत्वम्-*स्वप्रतिपतौ ॥
[पदार्थानां वाक्यार्थबोधाजनकत्वम् ] ननु ! पदानि स्वप्रतिपत्तौ चरितार्थीभूय पदार्थप्रतिपत्तिमादधति । पुनस्तान्येव कथं वाक्यार्थप्रतिपत्तिमाधास्यन्ति ? पदार्थास्तु स्वावगते. रूवं न क्वचित्परत्रवरितार्था इति वाक्यार्थबुद्धविधातारो भवन्तु-नैत देवम्-अन्त्यपदस्यान्यत्र चरितार्थत्वाभावात् ॥
अन्त्यपदमेव पूर्वपदस्मरणोपकृतं वाक्यमुच्यते । तदर्थश्च पूर्वपदार्थविशिष्टो वाक्यार्थ इत्येके । तस्मात् वाक्यादेव वाक्यार्थप्रत्ययः ।।
[पदानां वाक्यार्थबोधजननप्रकारः] किन्तु–किमेकसंस्कारस्मरणेन कार्यद्वयं पदानि विदधाति विभिन्न संस्कारेण वा ? इति-तत्र कार्यभेदात् कारणभेदानुमानमिति प्रसिद्ध
* स्वविषयकज्ञाचजनने ॥
कार्यद्वयं-पदार्थप्रतिपादनम् , वाक्यार्थप्रतिपादनं च ॥
1 त्रा-ख,
न्तीति-च.